पृष्ठम्:अलङ्कारमणिहारः.pdf/४७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
469
समासोक्तिसरः (२५)

यते, सममब्राह्मणे दानम्' इत्यादाविव संप्रदानस्यैवाधिकरणत्वविवक्षया सप्तमी ।भूदानक्रियासंप्रदानभूतेत्यर्थः। हे उपेन्द्र! इन्द्रावरज! हे बलिध्वंसिन् ! त्वत्सात्कृतिः त्वदधीनता त्वद्बाग्विधेयतेति यावत् । तां भजतीति तथोक्तः । ‘तदधीनवचने च' इति सातिप्रत्ययः । भूः भूधातुरित्यर्थः । भावे भावार्थे ‘तयोरव कृत्यक्तखलर्थाः’ इत्यनुशासनात् । तयोरेव भावकर्मणोरेवेत्यर्थः । यतः ‘अचो यत्' इति विहिताद्यत्प्रत्ययात् यत्प्रत्ययं प्राप्येत्यर्थः । ल्यब्लोपे कर्मणि पञ्चमी । गुणात् ‘सार्वधातुकार्धधातुकयोः इत्यनेन विहितादार्धधातुकत्वलक्षणाद्गृणात् । भव्यत्वं भव्यमिति रूपं अगात् प्राप्नोत् । भूधातोरकर्मकतया भावे यति गुणे च भव्यमिति निष्पत्तेरिति भावः। कर्तरि कर्त्रर्थे तत्कृत्यान्तनिपातः तस्य भूधातोरेव कृत्यान्तनिपातः ‘भव्यगेय’ इत्यादिना कृत्यप्रत्ययान्तत्वेन निपातनमित्यर्थः । निपातो नाम लक्षणाभावे साधुत्वाय सूत्रकृता स्वरूपेण शब्दानामुच्चारणम् । युक्त इति छेदः । उचित इत्यर्थः । ‘कृत्याः’ इत्यधिकारे भूधातोः ‘अचो यत् ’ इति कृत्यप्रत्ययस्सिद्धः । ‘भव्यगेय' इत्यादिना कर्तरि स निपातित इति विवेकः । अत्रापि पूर्ववदेवारोपः ॥

 यथा वा--

 हन्त त्वद्गिर्युदकं जातुस्वपरैकबिन्दुसंसर्गात् । नाथोदेत्यादेशात्प्रथयति साधुं समस्तमात्मानम् ॥

 हे नाथ! त्वद्गिरिः वेंकटाद्रिः तस्य उदकं आ देशात् सर्वदेशमभिव्याप्य ‘आङ्मर्यादावचने’ इति । कर्मप्रवचनीयसंज्ञायां ‘पञ्चम्यपाङ्’ इत्यादिना पञ्चमी ‘आङ्मर्यादाभिविध्योः' इत्यस्य महाविभाषाधिकारस्थत्वात्समासाभावः । उदेत्य आकाशगङ्गा-