पृष्ठम्:अलङ्कारमणिहारः.pdf/४७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
468
अलंकारमणिहारे

हीनं चापि भवेच्छ्रेष्ठं श्रेष्ठं वाऽप्यन्यथा भवेत् ॥

इति । भव्यत्वं शुभत्वं योग्यत्वं वा ‘भव्यं शुभे च योग्ये च सत्ये च' इति मेदिनी । श्रेयस्करत्वमिति यावत् । अगात् अलभत । क्ष्मादानकर्तरि भूवितरणविधातरि बलिदानवेन्द्र इत्यर्थः । तत्कृत्यान्तनिपातः तस्य कृत्यस्य पूर्वोक्तदानकार्यस्य अन्ते अवसान एव । न तु कालान्तरे वा । निपातः अधोभुवनपातनम् । निपातोऽयुक्त इत्यत्र अयुक्त इति छेदः । अयुक्तः अनुचितः। येन यस्य यस्मिन् दानकृत्ये दत्तं वस्तु पात्रादिगुणभूम्ना ‘युक्ताङ्गैस्सकलैष्षड्भिर्दानं स्याद्विपुलोदयम्’ इत्युक्तरीत्या महाफलं संपद्येत, तस्यैव दानकर्तुस्तत्कार्यान्त एव प्रतिग्रहीत्रा निपातनमनुचितमिति निर्गळितोऽर्थः । अयं चार्थः-

यत्पदयोरचलधीस्सलिलं प्रदाय ।
दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् ॥
अप्युत्तमां गतिमसौ लभते त्रिलोकीं ।
दाश्वानविक्लबमनाः कथमार्तिमृच्छेत् ॥

इति बलिनिग्रहावसरे भगवन्तं प्रति ब्रह्मणा लोकदृष्ट्योक्तमर्थमभिसंधाय वर्णित इति ध्येयम् ॥

 पक्षे– क्ष्मादानकर्तरीत्यत्र क्ष्मादानेति उपेन्द्रभावे इत्यत्र उपेन्द्रेति च भिन्ने पदे संबुद्ध्यन्ते न तु समस्ते । आदत्ते स्वीकरोतीत्यादानः, नन्द्यादित्वात्कर्तरि ल्युः । क्ष्मायाः आदानः क्ष्मादानः, तस्य संबुद्धिः । यद्वा क्ष्मां दत्तवान् क्ष्मादान इति ‘कृत्यल्युटो बहुळम्' इति बहुळग्रहणात् भूते कर्तरि ल्युडेव 'तत्कृतार्थेन गुणवचनेन' इत्यादौ ‘गुणमुक्तवान् गुणवचनः' इति तत्त्वबोधिन्यादौ व्याख्यानात् । अथवा- क्ष्मा दीयते अस्मिन्निति ‘करणाधिकरणयोश्च' इत्यनेन अधिकरणे ल्युडेव ‘तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दी-