पृष्ठम्:अलङ्कारमणिहारः.pdf/४७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
466
अलंकारमणिहारे

कृछ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्’ इत्यनेन वृत्तिविषये पापार्थकाद्द्वितीयान्ताद्गहनशब्दाच्चिकीर्षायां क्यङ् । पापं चिकीर्षतीत्यस्वपदविग्रह इत्याहुः । समस्तं सर्वमपि दितिजं दैत्यं अस्वपदविग्रहं अस्वपन्तः अस्वप्ना देवाः तैः तेषु वा अविग्रहं त्यक्तकलहं ‘कलहविग्रहौ' इत्यमरः । रचयन् सुरासुराणां सिन्धुमन्थनविषये सन्धिं विदधान इति भावः । सुधां अमृतं च पुरा साधयसे कूर्मावतारे साधितवान् ‘पुरि लुङ्चास्मे' इत्यनेन पुराशब्दयोगे भूतानद्यतने वैकल्पिको लट् । अत्र श्रीभागवतीयं कूर्मावतारचरितमनुसन्धेयम् ॥

 अन्यत्र गहनायमानं गहनायमानशब्दं समस्तं समासं प्रातं दितिजशब्दं च अस्वपदविग्रहं स्वपदरहितवृत्त्यर्थावबोधकवाक्यमित्यर्थः । रचयन् गहनायमानशब्दस्य प्रागुपदर्शितरीत्या अस्वपदविग्रहः । दितिजशब्दस्य तु दित्यां जाता इति । 'सप्तम्यां जनेर्डः' इति डप्रत्ययः । अस्योपपदसमासत्वान्नित्यसमासत्वेनास्वपदविग्रह इति विभावनीयम् । सुधां च सुधाशब्दं च अस्वपदविग्रहं रचयन्निति संबध्यते । साधितवान् निष्पादितवान् । सुष्ठु धीयत इति सुधा । सुपूर्वकात् ‘धेट् पाने' इत्यस्माद्धातोः 'आतश्चोपसर्गे’ इति कर्मण्यङ् । ‘आतश्चोपसर्गे' इति कप्रत्यय उचित इत्यमरसुधायाम् । अयमपि प्रागुक्तरीत्या नित्यसमासवादस्वपदविग्रह एव । अत्र प्रस्तुते पौराणिकव्यवहारे अप्रस्तुतशब्दशास्त्रीयव्यहारारोप इति प्राचीनोदाहरणेभ्यो वैलक्षण्यमिति ध्येयम् ॥

 यथावा--

 भूस्त्वत्सात्कृतिभाग्यत उपेन्द्रभावे गुणादगा-