पृष्ठम्:अलङ्कारमणिहारः.pdf/४७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
464
अलंकारमणिहारे

 इत्यादिना राक्षसं प्रति व्यतिरेकमुखेन शरणागतपरित्राणस्य धर्ममूर्धन्यत्वमुपदिशतो रघोरप्यानन्ददेत्यर्थः । अनेन च संबुद्ध्यन्तपदेन शरणागतपरित्राणादिधर्मप्रवर्तनाय तदनुगुणेऽभिजनेऽवतीर्णत्वं तादृशेषु शरण्येषु च शीर्षण्यत्वं द्योतितम् । समस्तपदवित् समस्तस्य अखिललोकस्य पदं शरणवरणविषयकं व्यवसायं वेत्तीति तथोक्तः, सर्ववस्तुवेत्ता सर्वज्ञ इति वा । सर्वेषां पदं त्राणं वेत्तीति वा । सर्वभूतानामभयप्रदानेन रक्षितेति यावत् ।

 य एवमाह--

सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥

इति । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । त्वं —

विभीषणो वा सुग्रीव यदि वा रावणस्स्वयम् ।
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ॥

 इति वादीति भावः । परेऽपि शत्रुपक्षीयतया सुग्रोवादिभिश्शङ्कितेऽपि विभीषण इति भावः । यद्वा-परे रावणादावपि किमुत विभीषण इति भावः । अपिशब्दोऽत्र संभावने। संभावनं नामात्र दानशौण्डताविष्करणमित्युक्तिः । पदराजि पदयोश्चरणयोः राजत इति तथोक्तः तस्मिन् । ‘त्यक्त्वा दारांश्च पुत्रांश्च राघवं शरणं गतः’ इत्युक्तरीत्या सर्वस्वपरित्यागेन चरणारविन्दशरणवरणविधातरीति भावः । अयमर्थो राजीत्यनेन ध्वन्यते । तथा विश्वस्य तथाशब्दोऽत्रानिर्वचनीयताद्योतकः । ‘तथागतां ताम्' इत्यादिवत् । अनिर्वचनीयं यथा स्यात्तथा विश्वस्य विस्रभ्येत्यर्थः । विपूर्वकात् श्वसेः क्त्वो ल्यप् । वसुनि धनोप-