पृष्ठम्:अलङ्कारमणिहारः.pdf/४६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
460
अलंकारमणिहारे

हचर्यनियमो व्याप्तिः इति हि तल्लक्षणम् । इयमिति विधेयव्याप्तिशब्दगतलिङ्गकटाक्षेण । ततः उक्तविधव्याप्तिसद्भावादेव पक्षवर्तिनः, पक्षे 'सन्दिग्धसाध्यवान्पक्षः' इत्युक्तलक्षणे पर्वतादौ वर्तत इति तथोक्तः । तस्मात् त्वत्तः सद्धेतुभूताद्भवतः श्रीः लक्ष्मीः साध्यते वह्न्यादिरिवेति भावः । अत्रापि पूर्वोदाहरण इवारोपोऽनुसन्धेयः ॥

 यथा वा-

 यस्मिन्निश्चितमच्युत साध्यं निश्श्रेयसं वसत्यन्तः । त्वद्भक्तो न्यायविदां स सपक्षस्स्यात्फणाधरगिरीन्दो ॥ ७५५ ॥

 हे फणाधरगिरीन्दो! अच्युत ! यस्मिन् पुंसि अन्तः मनसि निःश्रेयसं मुक्तिः निश्चितं यथा स्यात्तथा साध्यं साधनीयं सत् वसति । साध्यं निश्चितमिति वा योजना, साध्यत्वेन निश्चितं सद्वसतीत्यर्थः । ‘सविशेषणे हि’ इति न्यायेन साध्यत्वेन निश्श्रेयसविषयकनिश्चयो मनस्वस्तीति यावत् ।

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि नस्तत् ।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥

इत्युक्तरीत्या नचिकेतसो मनसीवेति भावः । अन्तर्निश्श्रेयसं वसतीत्ययं निर्देशः ‘कर्तुं वा कच्चिदन्तर्वसति वसुमतीदक्षिणस्सप्ततन्तुः’ इतिवदिति ध्येयम् । सः त्वद्भक्तः न्यायविदां ब्रह्ममीमांसानयविदां गौतमीयन्यायवेत्तॄणां च । सपक्षः सदृशः पक्षोऽस्य सपक्षः स्ववर्गीण इत्यर्थः । स्यात् त्वादृङ्नो भूयान्नचि-