पृष्ठम्:अलङ्कारमणिहारः.pdf/४६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
459
समासोक्तिसरः (२५)

न्माता विष्णोश्श्रीरनपायिनी’ इत्यादिकमपि भाव्यम् । एषा व्याप्तिश्च-

यथा मया जगद्व्याप्तं स्वरूपेण स्वभावतः ।
तया व्याप्तमिदं सर्वं नियन्त्री च तथेश्वरी ।
मया व्याप्ता तथा साऽपि तया व्याप्तोऽहमीश्वरः ॥

इति लक्ष्मीतन्त्रोक्ता व्याप्तिरपि अस्तीति संबध्यते । तत् तस्मात् सत्पक्षवर्तिनः ब्रह्मवित्पक्षपातिनः--

चतुर्विधा मम जना भक्ता एव हि ते मताः ।
तेषामेकान्तिनश्श्रेष्ठास्ते चैवानन्यदैवताः ॥

इति स्वेवैवोक्तत्वादिति भावः । साधुजनपक्षपातिन इति वा ।‘ममप्राणा हि पाण्डवाः’ इति तदुक्तेरिति भावः । त्वत् नित्यानपायिलक्ष्मीकाद्भवतः । श्रीः साध्यते-

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ।
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥

इत्याद्युक्तरीत्या महाविभूतेस्त्वत्त एव ऐहिकामुष्मिकापवर्गिकसर्वविधसमृद्धिस्साध्यत इति भावः । जातवेदश्शब्दो भगवत्परतया व्याख्यातश्रीसूक्तभाष्ये । ‘सकलफलप्रदो हि विष्णुः । किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने' इत्यादिप्रमाणान्यत्रानुसंधेयानि ॥

 पक्षे -युवयोः यत्र त्वं तत्र श्रीरिति यत्र धूमस्तत्राग्निरित्यादिवत्साहचर्यनियमः अस्ति व्याप्तिश्च व्याप्तिरपि एषा इयमेव । सर्वं हि वाक्यं सावधारणम् । साहचर्यनियम एवेत्यर्थः । ‘सा-