पृष्ठम्:अलङ्कारमणिहारः.pdf/४६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
458
अलंकारमणिहारे

न शोको न मृत्युः' इत्यादिश्रुतिरिहानुसन्धेया । निष्प्रतिपक्षं ‘तेन कोऽर्हति स्पर्धितुम्’ इति श्रुतेः । साधूनां ज्ञानिनां पक्षे तिष्ठतीति साधुपक्षस्थः तं ‘ज्ञानी त्वात्मैव मे मतं, स च मम प्रियः' इति गानात् । सद्धेतुं 'सदेव सोम्य' इत्याद्युक्तरीत्या सकलजगत्कारणमित्यर्थ । त्वां प्राप्य उपास्य इष्टानि मुक्तैश्वर्यादीनि साधयन्ति ॥

 अन्यत्र-साधु पक्षस्थमिति पदद्वयम् । जगतामीशेति संबोधनम् । व्याप्त्या यत्र धूमस्तत्राग्निरित्यादिसाहचर्यनियमेन प्रथितं बाधो नाम साध्याभाववत्पक्षः । स नास्ति यस्य तं अबाधम् । प्रतिपक्षो नाम स्वसाध्यविरुद्धसाध्याभावसाधकप्रतिहेतुमत्पक्षः स निर्गतो यस्य तं निष्प्रतिपक्षम् । पक्षे संदिग्धसाध्यवति पर्वतादौ तिष्ठतीति पक्षस्थः तम् । अत एव सद्धेतुं धूमादिं प्राप्य ज्ञात्वा इष्टानि वह्न्यादीनि साधयन्तीत्यर्थः । अत्र वेदान्तशास्त्रीयव्यवहारे प्रस्तुते अप्रस्तुतन्यायशास्त्रीयव्यवहारारोपः पूर्वेभ्यो विशेषः ॥

 यथा वा--

 यत्र त्वं तत्र श्रीरिति युवयोस्साहचर्यनियमोऽस्ति । व्याप्तिश्चैषाऽच्युत तत्साध्या सत्पक्षवर्तिनस्त्वच्छ्रीः ॥ ७५४ ॥

 हे अच्युत ! यत्र यस्मिन् देशे त्वं भवसि, तत्र श्रीर्लक्ष्मीरपि भवति । इति युवयोः तव श्रियश्च ‘त्यदादीनि सर्वैर्नित्यम्’ इति युष्मच्छब्दैकशेषः साहचर्यनियमः अस्ति-

देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।
विष्णोर्देहानुरूपां वै करोत्येषाऽऽत्मनस्तनुम् ॥

इत्युक्तप्रक्रियया नियतसाहचर्यमस्तीति भावः । 'नित्यैवैषा जग-