पृष्ठम्:अलङ्कारमणिहारः.pdf/४६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
457
समासोक्तिसरः (२५)

र्ये अनन्तरस्य भावः आनन्तर्यं तस्मिन् अविनभावे सतीत्यर्थः । अन्तरङ्गस्येत्यर्थाल्लभ्यते । पुनः बहिष्ट्वक्लूप्तिः बहिर्भावकल्पनं पुनर्विश्लेष इति यावत् । कदाऽपि न भवेत् । अतो वहिरङ्गमखिलं न ज्ञानविषयतां प्रपद्यत इत्यर्थः । यदि त्वयि लग्नं मनो बहिर्मुखं भवेत्तर्हि बहिरङ्गमसिद्धवन्न स्यादिति भावः । अनेनैवाभिप्रायेणाच्युतेति भगवत्संबोधनम् । 'यस्मात्प्राप्ता न च्यवन्ते सोऽच्युतः' इति हि निरुच्यने । भगवति लग्नस्य यस्यकस्यापि वस्तुनस्तस्माच्च्युतिर्न भवतीत्यभिप्रायः ॥

 पक्षे–पूर्वार्धेन ‘असिद्धं बहिरङ्गमन्तरङ्गे’ इति परिभाषा, उत्तरार्धेन तदपवादभूता “नाजानन्तर्ये बहिष्ट्वप्रक्लूप्तिः' इति परिभाषा च दर्शिता । अन्तरङ्गे कार्ये कर्तव्ये बहिरङ्गमसिद्धं स्यादित्यन्तरङ्गपरिभाषाया अर्थः । अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्गं कर्तव्ये जातस्य बहिरङ्गस्य बहिष्ट्वप्रक्लूप्तिः बहिष्पदेन बहिरङ्गं गृह्यते तस्य भावो बहिष्ट्वं बहिरङ्गत्वं तत्प्रयुक्तासिद्धत्वस्य न प्रक्लूप्तिः न प्राप्तिरिति नाजानन्तर्यपरिभाषाया अर्थः । विस्तरस्त्वन्यत्र । अत्रापि पूर्ववदेवारोपः ।

 यथा वा--

 व्याप्त्या प्रथितमबाधं निष्प्रतिपक्षं च साधुपक्षस्थम् । सद्धेतुमीश जगतां त्वां प्राप्येष्टानि साधयन्ति बुधाः ॥ ७५३ ॥

 हे ईश ! भगवन् ! बुधाः सुधियः व्याप्त्या ‘अन्तर्बहिश्च तत्सर्वम्' इत्यादिश्रुत्युक्तव्यापनेन प्रथितं अविद्यमाना बाधा

दुःखं यस्य तं ‘पीडा बाधा व्यथा दुःखम्' इत्यमरः । ‘न जराः

ALANKARA
58