पृष्ठम्:अलङ्कारमणिहारः.pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
40
अलंकारमणिहारे

वा पूर्वपदं यस्य तत् सप्तम्युपमानपूर्वपदमिति बहुव्रीहिः । तस्य पदान्तरेण बहुत्रीहिः, उत्तरपदस्य पूर्वसमासचरमावयवभूतस्य स्थ इत्यस्य मुखमित्यस्य च लोपश्च वाच्य इति । तथाच तत्र भाष्यम् । ‘सप्तमीपूर्वस्योपमानपूर्वस्य च बहुव्रीहिर्वक्तव्यः । उत्तरपदस्य च लोपो वक्तव्यः। कण्ठेस्थः कालो यस्य कण्ठेकालः उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः’ इति । अत्र वार्तिके उपमानशब्देन मुख्योपमानभूतस्य उष्ट्रमुखस्याश्रय उष्ट्रो लक्ष्यते । अन्यथा उष्ट्रमुखमित्यस्योपमानपूर्वत्वं न स्यात् । अतएव ‘उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः' इति प्रकृतवार्तिकोदाहरणभाष्यप्रतीकमादाय ‘अवयवधर्मेण समुदायस्य व्यपदेशादुष्ट्रस्योपमानतेत्युपमानपूर्व उष्ट्रमुखशब्दः’ इति कैयटे व्यव्रियत । एवंचात्र यथा कण्ठेस्थः कालो यस्य स इति बहुव्रीहौ कण्ठशब्दोत्तरवर्तिस्थशब्दस्य लोपः यथा वा उष्ट्रमुखमिव मुखमित्यत्र षष्ठीतत्पुरुषचरमावयवभूतमुखशब्दलोपश्च, तथा घनविद्युल्लावण्यमिव लावण्यं यस्येति बहुव्रीहौ विद्युच्छब्दोत्तरवर्तिमुख्योपमानवाचकलावण्यपदस्यैव लोपः न तूपमेयभूतलावण्यपदस्येति धर्मवाचकोपमानलुप्ताया एवेदमुदाहरणं बोध्यम् । इदं सर्वमपि हंससन्देशरसास्वादिन्यामादिमपद्ये कल्पाकारामित्यस्य व्याख्यानावसरे निरूपितमस्माभिः ॥

 प्राञ्चस्तु केचित्--अयश्शूलसदृशेन क्रूरेणाचारेण स्वार्थमन्विच्छति खले प्रयुज्यमाने आयश्शूलिकः खल इत्यत्र क्रूराचाररूपस्योपमेयस्य तैक्ष्ण्यादेर्धर्मस्य इवादेर्वाचकस्य चाप्रयोगाद्धर्मोपमेयवाचकलुप्ताऽपि त्रिलोपे सम्भवतीत्याहुः ।तन्न चतुरश्रम् -अयश्शूलपदेन क्रूराचारं निगीर्याध्यवसानेनातिशयोक्त्या