पृष्ठम्:अलङ्कारमणिहारः.pdf/४५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
453
समासोक्तिसरः (२५)

'निरञ्जनः परमं साम्यमुपैति’ इति श्रुतं परमसाम्यमिति यावत् । भवति निष्पद्यते । अत्र फलाध्यायस्थब्राह्माधिकरणार्थोऽनुसन्धेयः । तत्र हि ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यत्र अभिनिष्पाद्यतथोक्तं किमपहतपाप्मत्वादिकमेव उत ज्ञानमात्रमेव आहोस्विदुभयमपीति विशये मुक्तमधिकृत्यापहतपाप्मत्वाद्युपन्यासात्तेन रूपेणैवाविर्भवतीति ‘ब्राह्मेण जैमिनिरुपन्यासादिभ्यः' इति सूत्रेण जैमिनिमतमनूद्य ‘विज्ञानघन एव’ इत्यादिषु ज्ञानमात्रमेवास्य स्वरूपमित्यवगमात्, अपहतपाप्मादिशब्दानां शोकाद्यभावपरत्वाच्च ज्ञानमात्रस्वरूपेणाविर्भवतीति ‘चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः’ इत्यौडुलोमिमतमुपन्यस्य पक्षद्वयेऽप्यन्यतरश्रुतिबाधात् "विज्ञानघन एव’ इत्यवधारणस्य एकदेशजडत्वशङ्काव्युदासपरत्वेन गुणान्तरप्रतिक्षेपकत्वाभावादुभयरूपेणाविर्भवति” इति ‘एवमप्युन्यासात्पूर्वभावादविरोधं बादरायणः’ इति सूत्रेण मतद्वयमपि प्रतिक्षिप्तम् ॥

 पक्षे- अतः ह्रस्वाकरात् परतः परत्र विद्यमाने शास्त्रप्रसिद्ध्या शब्दविद्याप्रसिद्ध्या सुभगे गुणे गुणसंज्ञके अकारादौ वर्णे निरन्तरं भाति संहितायां अव्यवधानेन भासमाने सति पदं सुप्तिङन्तात्मकं तस्य अन्तः चरमभागः पदान्तः स न भवतीत्यपदन्तः तस्मिन् पदान्तभिन्ने स्थितिभाजः तस्य गुणावधित्वेन पूर्वमुक्तस्य अस्य ह्रस्वाकारस्य पररूपं परस्य गुणसंज्ञकवर्णस्य रूपं तद्रूप एकादेश इत्यर्थः । भवतीति 'अतो गुणे’ इति सौत्रोक्तप्रक्रिययाऽर्थोऽनुसन्धेयः । अत्रापि पूर्ववदेवारोपः ॥

 यथा वा--

 अचिदिह योऽनड्वानिव सन्मार्गस्रदपि तव दृशो