पृष्ठम्:अलङ्कारमणिहारः.pdf/४५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
452
अलंकारमणिहारे

त्युक्तेः, ‘विग्रहस्समरे देहे विस्तरेऽपि’ इति रत्नमाला । अथ स्वनिभं स्वनिभशब्दं च अस्वपदविग्रहं तनुषे इति योजना । तस्यापि नित्यसमासत्वादिति भावः ‘स्युरुत्तरपदे त्वमी’। ‘निभसंकाशनीकाशप्रतीकाशोपमादयः’ इत्युत्तरपदभूतस्यैव निभशब्दस्य तुल्यार्थकत्वानुशासनात् । उत्तरपदशब्दश्च समासचरमावयवे रूढः । अत्रापि पूर्ववदेव व्यवहारारोपः ॥

 यथावा--

 शास्त्रप्रसिद्धिसुभगे निरन्तरं भात्यतो गुणे परतः । अपदान्तस्थितिभाजस्तस्यास्य बुधस्य भवति पररूपम् ॥ ७४९ ॥

 शास्त्रे औपनिषददहरविद्यादौ प्रसिद्धिः ख्यातिः तया सुभगे रमणीये गुणे ‘अपहतपाप्मा विजरो विमृत्युः, विज्ञानघन एव’ इत्यादिश्रुते गुणे । जात्यभिप्रायकमेकवचनम् । परतः परस्मात् अतः अकारवाच्यान्नारायणात् ‘अ इति भगवतो नारायणस्य प्रथमाभिधानम्’ इत्याद्युक्तेः । परब्रह्मणस्सकाशात् तदनुग्रहादिति यावत् । निरन्तरं निश्शेषाविद्यानिवृत्त्या निरर्गळं यथा स्यात्तथा भाति सति । यद्वा अतःपरत इति षष्ठ्यर्थे । सार्वविभक्तिकस्तसिः । परतः अतः परस्य ब्रह्मणः गुणे इति योजना । अपहतपाप्मत्वादौ ब्राह्मे गुणे इत्यर्थः । निरन्तरं भाति नित्यं प्रकाशमाने सतीत्यर्थः । अपदान्तस्थितिभाजः अस्य अकारवाच्यस्य नारायणस्य पदं ‘तद्विष्णोः परमं पदम्' इत्याम्नातं स्थानं तस्मिन् तस्य वा अन्तः मध्ये रेफान्तमधिकरणशक्तिप्रधानमव्ययम् । स्थितिभाजः तस्यास्य परब्रह्मप्रसादाविर्भूतब्राह्मगुणस्यास्य बुधस्य ब्रह्मविदः पररूपं परस्य ब्रह्मणो रूपं