पृष्ठम्:अलङ्कारमणिहारः.pdf/४५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
450
अलंकारमणिहारे

इत्यादौ नाम्नि बोधे पाकाश्रय इत्यादेर्द्रव्यप्राधान्यस्य ‘सत्त्वप्रधानानि नामानि’ इति तेनानुशिष्टत्वादिति भावः । अत्रापि प्रस्तुते वेदान्तशास्त्रीयव्यवहारे अप्रस्तुतशब्दशास्त्रीयव्यवहारारोपः ॥

 यथावा-

 अपि पापकारिणमहो सुभजन्तं साधुकारिवज्जानन् । अस्वपदविग्रहमथ स्वनिभं च तनोषि नाथ सुमनास्तम् ॥ ७४८ ॥

 हे नाथ! त्वं पापकारिणमपि पापंकरोतीति पापकारी तथोक्तमपि ‘सुप्यजातौ’ इते तच्छील्ये णिनिः । सुभजन्तं आत्मानं सम्यगनन्यभाक्त्वेन भजमानं जनं साधु करोतीति सधुकारी साधुकर्मकृत् । पूर्ववदेव णिनिः । तेन तुल्यं तद्वत् जानन् साधुकारिपापकारिपदाभ्यां "साधुकारी साधुर्भवति पापकारी पापो भवति” इति श्रुतिः प्रत्यभिज्ञाप्यते । आदौ दुष्कृतकारिणमप्यात्मानं सम्यग्भजमानं पुमांसं साधुकारिवज्जानन् ।

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः ॥

इति स्वेनैव गीतत्वादिति भावः । तं पुमांसं अस्वपदविग्रहं स्वपदाभ्यां स्वचरणाभ्यां विग्रहः कलहः विवाद इति यावत् स न विद्यते यस्य तं तथोक्तं तनुषे ।

यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः ।
तेन चेदविवादस्ते मा गङ्गां मा कुरून्गमः ॥

इत्युक्तरीत्या सर्वान्तर्यामिणा सर्वस्वामिना स्वेनाविवदमानं विधत्स इत्यर्थः । अत्र ‘त्वं मेऽहं मे’ इत्युक्तरीत्या भगवता सह प्र-