पृष्ठम्:अलङ्कारमणिहारः.pdf/४५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
448
अलंकारमणिहारे

 हे भगवन् ! विविधानां पदानां वस्तूनां नामरूपयोः देवादिनामधेयविचित्रसृष्ट्योः व्याकरणं विभागः तत्करोतीति तथोक्तः तेन । ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि' इति श्रुतेः । त्वयैव मृत्युंजयस्य पिनाकिनः अर्धाङ्गे अर्धशरीरे सुतरां अतिसुष्ठ उमागमश्रीः उमायाः गौर्याः आगमश्रीः संबन्धसंपत् । व्यधीयत अक्रियत । विविधप्रपञ्चनामरूपव्याकर्तारं त्वामन्तरेण पुरारातेरर्धाङ्गनाङ्गत्वं को नु नामान्यो विदधीतेति भावः ॥

 अन्यत्र- विविधानां पदानां सुप्तिङ्ङन्तात्मकानां नाम्नां कृदन्तादिप्रातिपदिकानामपि यानि रूपाणि तेषां व्याकरणं प्रकृतिप्रत्ययाद्यन्वाख्यानं करोतीति तथोक्तेन । मृत्युंजयस्य मृत्युंजयशब्दस्य अर्धाङ्गे तस्य शब्दस्य वर्णचतुष्टयात्कतया वर्णद्वयस्यार्धाङ्गत्वं, तत्र आद्यवर्णद्वयचरमभागे इति यावत् । सुतरा अतिवेलरमणीया उच्चारणे कोमलतासंपादनादिति भावः । मुमागमस्य मुमित्याकारकागमस्य श्रीः 'संज्ञायां भृतृवृजि' इत्यादिना खचि ‘अरुद्विषदजन्तस्य मुम्’ इत्यनेन मुमागम इत्यर्थः। व्यधीयत विहिता । अत्र प्रस्तुते वेदान्तशास्त्रीयव्यवहारे अप्रस्तुतशब्दशास्त्रीयव्यवहारारोपः ॥

 यथा वा--

 साधुक्रियाप्रधानकमाख्यातं येन विश्वमनुशिष्टम् । नामानि तस्य सत्त्वप्रधानतां दधति तव विभान्ति विभो ॥ ७४७ ॥

 हे विभो! येन त्वया 'सत्त्वस्यैष प्रवर्तकः’ इति सत्त्वप्रवर्तकतया श्रुतेन भवता । विश्वं कृत्स्नं जगत् साधुक्रिया