पृष्ठम्:अलङ्कारमणिहारः.pdf/४५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
446
अलंकारमणिहारे

तथाच सूत्रम्- ‘तद्गृणास्तु विधीयेरन्न विभागाद्विधानार्थेन चेदन्येन शिष्टाः’ इति । अन्यत्र प्राप्ते कर्मणि तु अनेको गुणो न विधातुं शक्यः । अत एव ‘दधि मधु घृतं पयो धाना उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यम्' इति प्रकृत्य ‘चित्रया यजेत पशुकामः' इति मानान्तरप्राप्तकर्मानुवादेन चित्रत्वस्त्रीत्वगुणद्वयविधाने वाक्यभेद इति चित्रापदस्य नामधेयत्वमेव 'यदाग्नेयोऽष्टाकपालो भवत्यमावास्यायां च पौर्णमास्यां चाच्युतो भवति’ इत्यत्र मानान्तराप्राप्ते कर्मणि एकदेवताष्टाकपालपुरोडाशामावास्यापौर्णमास्याद्यनेकगुणविशिष्टो द्रव्यदेवतासंबन्धेनानुमितो यागो विधीयत इति विशिष्टकर्मविधानान्न वाक्यभेद इति व्यवस्थापितमाकरे । एवमन्यत्रापि द्रष्टव्यमिति संक्षेपः। अत्रापि पूर्ववदेव शास्त्रीये व्यवहारे शास्त्रीयव्यवहारारोपः ॥

 यथा वा-

 ब्रह्म जयतादपूर्वं करणादिकमपि यदन्वयादेव । प्राप्नोति शक्तिमत्त्वं प्रभाकराद्याश्च यदनुगा विबुधाः ॥ ७४५ ॥

 अपूर्वं ‘न चास्य कश्चिज्जनिता’ इत्युक्तरीत्या कारणान्तररहितं कार्याणां कारणं पूर्वम्' इत्युक्तरीत्या सकलजत्कारणभूतमित्यर्थः । ब्रह्म भगवान् जयतात् । यस्य ब्रह्मणः अन्वयात् प्रेरणादेवेति यावत् । करणादिकं इन्द्रियादिकमपि आदिशब्देन प्राणादिकं गृह्यते । शक्तिमत्त्वं स्वस्वविषयकार्यक्षमत्वं प्राप्नोति-

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः।
केनेषितां वाचमिमां वदन्ति चक्षुश्श्रोत्रं क उ देवो युनक्ति ॥