पृष्ठम्:अलङ्कारमणिहारः.pdf/४५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
445
समासोक्तिसरः (२५)

याश्रित’ इत्यादिना समासः । महार्णवजले शयान इति यावत् । 'यमन्तस्समुद्रे क्रवयोऽवयन्ति, महार्णवे शयानोऽप्सु' इत्यादिप्रमाणत् । अनेन--

आपो नारा इति प्रोक्ता आपो वै नरसूनवः।
ता यदस्यायनं पूर्वं तेन नारायणस्स्मृतः ॥

इति स्मृत्युक्तनारायणशब्दनिर्वचनं दर्शितम् । तेन ‘एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नेमे द्यावापृथिवी' इति श्रुतं कारणत्वमप्याक्षिप्तं भवति । त्वयि परं त्वय्येव । बहवोऽसंख्याता अपि गुणाः कारणत्वौपयिकाः सर्वज्ञत्वसर्वशक्तित्वादयः कल्याणगुणाः विधीयन्ते 'यस्सर्वज्ञस्सर्ववित्' इत्यादिश्रुतिभिरिति भावः । अन्यत्र त्वदतिरिक्ते देवे तु अनेकोगुणः विधातुं न शक्यः । एकोऽपि गुणो न शक्यो विधातुं किमुतानेकः । तवेवान्येषां दैवतानामेकयाऽपि श्रुत्या उक्तविधकल्याणकगुणस्यैकस्याप्यनुक्तेरिति भावः । एतेन कारणवाक्यघटितानां हिरण्यगर्भशिवादिशब्दानामैन्द्रीन्यायेन कयाचिदवयवशक्त्या रूढ्या अपर्यवसानवृत्त्या वा नारायणपरत्वमेवेति पूर्वश्लोकोक्त एवार्थः स्थूणानिखनन्यायेन स्थिरीकृत इत्यवधेयम् ॥

 अन्यत्र--

प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः ।
अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥

इति मीमांसककारिकायाः पूर्वोत्तरार्धयोरर्थः एतत्पद्योत्तरपूर्वार्धाभ्यां वैपरीत्येन वर्णितः । तथाहि -पूर्वं गुणविधानात्पूर्वं अप्प्राप्ते शास्त्रान्तरेणाविहिते कर्मणि अत्र 'अनचि च' इति रेफघटितपकारस्य वैकल्पिकं द्वित्वम् । बहवोऽपि गुणाः अप्रधानभूता अर्थाः परं एकयत्नेनैवेति यावत्। विधीयन्ते विहिता भवन्ति ।