पृष्ठम्:अलङ्कारमणिहारः.pdf/४५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
444
अलंकारमणिहारे

वगतार्थबोधकोऽनुवादः । यथा-‘अग्निर्हिमस्य भेषजम्' इति । अत्र हिमविरोधित्वस्याग्नौ प्रत्यक्षावगतत्वात् । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधको वादो भूतार्थवादः । यथा —‘इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादिः । इत्यलं प्रसक्तानुप्रसक्तिकाचापलेन । विदुषा उक्तरीत्या विधिमन्त्रार्थवादवेत्त्रा पुरुषेण विपश्चिता । सनातनः ‘एष धर्मस्सनातनः’ इत्युक्तरीत्या श्रुतिस्मृत्यादिपरंपरागतः । धर्मः साध्यरूपो धर्मः निश्चितं मीमांसान्यायैर्निस्संदिग्धं यथा स्यात्तथा स भवानवेदि ज्ञातः । धर्मो नाम वेदप्रतिपाद्यः प्रयोजनवदर्थः । स च यागादिरेव । प्रयोजनेऽतिव्याप्तिवारणाय प्रयोजनवदिति । भोजनादावतिव्याप्तिवारणाय वेदप्रतिपाद्य इति । अनर्थफलकत्वादनर्थभूते श्येनादावतिव्याप्तिवारणायार्थ इति । नच ‘चोदनालक्षणोऽर्थो धर्मः’ इति सौत्रतल्लक्षणविरोधः । चोदनापदस्य विधिरूपवेदैकदेशपरत्वादिति वाच्यम् । तत्रापि चोदनाशब्दस्य वेदमात्रपरत्वात् । वेदस्य सर्वस्य धर्मतात्पर्यवत्त्वेन धर्मप्रतिपादकत्वादित्यलं विस्तरेण । अत्र ब्रह्ममीमांसाशास्त्रीये प्रस्तुते व्यवहारे अप्रस्तुतकर्ममीमांसाशास्त्रीयव्यवहारारोपः ॥

 यथा वा--

 अप्प्राप्ते पूर्वं त्वयि बहवोऽपि गुणाः परं विधीयन्ते । अन्यत्र तु न विधातुं शक्योऽनेको गुणो भगवन् ॥ ७४४ ॥

 हे भगवन् ! इदं वक्ष्यमाणगुणपौष्कल्यवत्ताभिप्रायगर्भम् । पूर्वं सृष्टेः प्राक् । अपः प्राप्तः अप्प्राप्तः । तस्मिंस्तथोक्ते ‘द्विती-