पृष्ठम्:अलङ्कारमणिहारः.pdf/४४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
441
समासोक्तिसरः (२५)

आसीत्' इति श्रुते नारायणरूपविशेषे पर्यवसाययतेति । आप्त्रा प्राप्त्रा । अनेन ‘ब्रह्मविदाप्नोप्ति’ इत्यत्रोक्तं परप्राप्तृत्वं प्रकटीकृतम् । विदुषा ‘द्वे विद्ये वेदितव्ये परा चैवापरा च ’ ॥

तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ।
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ।
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥

इत्यत्रोक्तागमोत्थज्ञानवतेत्यर्थः, विवेकादिसाधनसप्तकानुगृहीतोपा सनात्मकज्ञानस्यावेदीति पृथग्वक्ष्यमाणत्वात् । सनातनः नित्यः धर्मः सिद्धधर्मरूपः । अलौकिकश्रेयस्साधनं हि धर्मः । स च सिद्धसाध्यभेदेन द्विविधः सिद्धरूपे वस्तुनि धर्मशब्दप्रयोगोऽपि महाभारते दृश्यते । यथा--

ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः ।
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥

इति सिद्धोपायभूत इत्यर्थः । स भवान् प्राप्यरूपस्त्वम् । निश्चितं युक्त्यन्तरैरचाल्यं यथा स्यात्तथा अवेदि उपास्यत । आवृत्त्यधिकरणे विद्युपास्योरैकार्थ्यस्य भाषितत्वात् । उपासनं नाम विजातीयप्रत्ययानन्तरितं अहरहरभ्यासाधेयातिशयं प्रीतिरूपापन्नं दर्शनसमानाकारं ध्यानम् । अनेन ‘द्रष्टव्यो निदिध्यासितव्यः' इत्यसावर्थोऽनुसृतः ॥

 पक्षे –श्रुताः विधयः अपूर्वनियमपरिसंख्याभेदभिदुराः विधयः येन स तथोक्तः । तेन ईदृशविधिस्वरूपपरिज्ञात्रोत यावत् । तत्र यो विधिरत्यन्ताप्राप्तमर्थं प्रापयति सोऽपूर्वविधिः।

यथोक्तं ‘विधिरत्यन्तमप्राप्तौ’ इति । यथा दर्शपौर्णमासप्रकरणे “व्रीहीन् प्रोक्षति’ इति एतद्विध्यभावे दर्शपौर्णमासीयव्री-

 ALANKARA
56