पृष्ठम्:अलङ्कारमणिहारः.pdf/४४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
437
समासोक्तिसरः (२५)

 समासोक्तौ व्यज्यमानस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम् । तदुपस्कृतवाच्यस्यैव प्राधान्यमित्युक्तम् । तत्र यदि व्यङ्ग्यस्यैव प्राधान्यं स्यात् न वाच्यस्य, तदा 'स्तोतुं त्रपामहे त्वां' इति प्रागुदाहृते पद्ये निन्दाव्याजेन स्तुतौ पर्यवसानं न स्यात् । स्तुतिनिन्दयोः प्रकृताप्रकृतव्यवहाराश्रयत्वादिति ध्येयम् ॥

 अलंकारसर्वस्वकारेण तु “औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति । यथा-

दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।
केशपाशालिबृन्देन सुवेषा हरिणेक्षणा ॥

अत्र हारिणेक्षणामात्रवृत्तेस्सुवेषत्वस्य विशेषणस्य महिम्ना दन्तप्रभासदृशानि पुष्पाणीत्यादियोजनां विहाय दन्तप्रभाः पुष्पाणीवेत्याद्युपमितसमासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां वृत्त्यन्तरेण त्यक्ताया एव योजनायाः पुनरुज्जीवने पुष्पपल्लवालिबृन्दैरुपमेयैः आक्षिप्ताया लतायाः प्रत्ययात्तद्व्यवहारारोपः। एवं सुवेषेत्यपहाय परीतेति कृते उपमारूपकसाधकबाधकप्रमाणाभावात्तदुभयसंशयरूपसंकराश्रयेण कृते योजने पश्चात्पूर्वोक्तरीत्या लताप्रतीतेस्समासोक्तिरेव । समासभेदेनार्थभेदेऽपि शब्दैकमादाय श्लिष्टमूलायामिव विशेषणसाम्यं बोध्यम् । आदावन्ते वा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरिणेक्षणांशे आक्षिप्तलतातादात्म्यकेन एकदेशविवर्तिरूपकेणैवाप्रकृतार्थप्रत्ययोपपत्तेर्नार्थस्समासोक्तेरत्र" इत्यभिहितम् ।

 तन्न विचारसहं-दन्तप्रभाः पुष्पाणीवेत्युपमागर्भत्वेनाप्यादौ योजने कृते हरिणेक्षणांशे आक्षिप्तलतोपमानिकया एकदेशविवर्तिन्या उपमयैव गतार्थत्वात्समासोक्तेरानर्थक्यादत्राप्रसक्तेः । न