पृष्ठम्:अलङ्कारमणिहारः.pdf/४३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
433
समासोक्तिसरः (२५)

पन्थाः” इति । अन्यत्सर्वं तत्रैव द्रष्टव्यं विस्तराभिलाषिभिरि त्यलमतिभूमिस्वैरविसर्पणेन ॥

 अथास्याः केवलभेदाः प्रतिपाद्यन्ते । विशेषणसाम्यं श्लेषेण भवति शुद्धसाधारण्येन वा । तदपि धर्मान्तरपुरस्कारेण कार्यपुरस्कारेण वेति प्रत्येकं द्विविधम् । तत्र श्लिष्टधर्मान्तरपुरस्कारेण विशेषणसाम्यं यथा--

 विलिखितविचित्रपत्रा सुच्छाया भास्वदतनुतापहरा । उरगगिरितटवनी परिचरणाच्छ्रीवल्लभस्य सोल्लासा ॥ ७३७ ॥

 विलिखितानि विशेषेण रचितानि, विभिः पक्षिभिः लिखितानि चञ्चुपुटैर्दळितानि च । चित्राणि मकरिकाद्याकारवत्तथा नानारूपाणि पत्राणि पत्राकाररेखान्यसनानि । पक्षे–नानावर्णानि पलाशानि यस्यास्सा तथोक्ता । सुच्छाया शोभनानातपामनोहरकान्तिश्च । भास्वतः भानोः अतनुः अकृशः यस्तापः तस्य हरा । अन्यत्र-भास्वान् उदीर्णः अतनोर्मदनस्य तापस्संज्वरः तस्य हरा । श्रीवल्लभस्य परिचरणात् परितस्संचारात् शुश्रूषणाच्च सोल्लासा सप्रकाशा सहर्षा च । अत्र दक्षिणनायकलब्धोपचारोत्तममहिळावृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः सुच्छायत्वसोल्लासत्वादिधर्मपुरस्कारेण श्लेषेण विशेषणसाम्यम्। एवं ‘स्फुटकुचमुख’ इति प्रागुदाहृते पद्येऽपि द्रष्टव्यम् ॥

 श्लिष्टकार्यपुरस्कारेण विशेषणसाम्यं यथा--

 पूर्वं निपात्य विग्रहकाले शौरे समानमध्यमवीरान्। पश्चादनिपात्यैकं पदमपि लोके सुशब्दतां प्रकटयसे ॥ ७३८ ॥

 ALANKARA
55