पृष्ठम्:अलङ्कारमणिहारः.pdf/४३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
432
अलंकारमणिहारे

च सूर्य इत्येकत्र द्वयमिति विषयताशाली बोधस्स्यात् । न तु पूर्वोक्तानुपपत्तिपरिहारः । यदि च श्लेषमूलाभेदाध्यवसानेन कमलिन्यादीनां नायिकात्वादिप्रत्यय उपपाद्यते तदाऽप्यश्लिष्टपदोपस्थितो भगवान्नायकत्वानाघ्रात एव । पद्मिनीशब्दस्थाने नलिनीशब्दोपादाने साSपि नायिकात्वेन कथं नाम प्रतीतिविषयत्वमियात् । तस्माद्विशेषणसाम्यमहिम्ना प्रतीतिऽप्रकृतवाक्यार्थस्स्वानुगुणं नायिकादिमर्थमाक्षिप्य तेन परिपूर्णविशिष्टशरीरः प्रकृतवाक्यार्थे स्वावयवतादात्म्यापन्नतदवयवोऽभेदेनावतिष्ठते । स च परिणाम इव प्रकृतात्मनैव कार्योपयोगी । स्वात्मना च रसाद्युपयोगी । अत्र चाप्रकृतार्थस्य पृथक्छब्दानुपादानाद्रूपकाद्वाक्यार्थसंबन्धिनो वैलक्षण्यम् । पदार्थरूपकात्तु स्फुटमेव । आक्षिप्तार्थघटितत्वाच्च वाक्यार्थश्लेषात् । एवं चात्र शक्त्याक्षेपाभ्यां सर्वार्थनिर्वाह इति भामहोद्भटप्रभृतीनां चिरन्तनानामाशयः । ‘निशामुखं चुम्बति चन्द्र एषः' इत्यादौ निशाचन्द्रशब्दयोरश्लिष्टत्वान्मुखचुम्बनमात्रस्य च पुत्रादिसाधारण्येन कथं तावन्नियतनायकाक्षेपकत्वम्, कथं वा आक्षिप्तस्यापि नायकादेर्निशाचन्द्रयोरेवाभेदेनान्वयः, न भेदेन चुम्बनादौ । तथात्वेच तयोर्नायकताताटस्थ्ये रसानुद्बोधापत्तेः । तस्मात् ‘निशामुखं चुम्बति चन्द्रिकैषा, अहर्मुखं चुम्बति चण्डभानुः' इत्यादावप्रतीयमानं नायकत्वं प्रकृते टाप्प्रथमाभ्यां प्रतिपादितेन प्रकृत्यर्थगतेन स्त्रीत्वेन पुंस्त्वेन च स्वाधिकरण एवाभिव्यज्यते । एवं च निशाशशिनोर्नायकत्वसिद्धिश्श्लिष्टविशेषणैः । व्यञ्जनव्यापारेणैवाप्रकृतार्थबोधनम्, शक्तेः प्रकरणादिना नियन्त्रणात् । तदित्थं व्यञ्जनमाहात्म्यादेवाप्रकृतवाक्यार्थतादात्म्येन प्रकृतवाक्यार्थोऽवतिष्ठते । गुणीभूतव्यङ्ग्यभेदश्चायमिति तु रमणीयः