पृष्ठम्:अलङ्कारमणिहारः.pdf/४३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
431
समासोक्तिसरः (२५)

विशेषणत्वेन तयोरुपादाने तु साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतश्रृङ्गारवृत्तन्ताभिन्नत्वेन स्थित एवात्र प्रकृतो वीरवृत्तन्त इति स्यादेवातिप्रसङ्गः । न चात्र राज्ञो वर्णनस्य प्रस्तुतत्वात्तद्गतयोर्द्वयोरपि वृत्तान्तयोः प्रस्तुतत्वमिति कथमतिप्रसङ्ग इति वाच्यं, न स्यादतिप्रसङ्गः यदि वर्णनमात्रं प्रस्तुतं स्यात् , तत्संग्रामादौ धीरतामात्रवर्णनप्रस्तावे तु स्यादेवातिप्रसङ्गः ॥

मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि ।
त्वयि चपलेऽपिच सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥

इत्याद्यप्रस्तुतप्रशंसायामप्रकृतव्यवहारस्साक्षादुपात्तत्वाद्विशेष्येणाप्युपस्थापित एवेति न तत्रातिव्याप्तिः । यदि तु जलक्रीडादौ भ्रमरवृत्तान्त एव प्रस्तुतस्तदा भवत्येवेयं समासोक्तिः ॥

तत्र तावत्--

विबोधयन् करस्पर्शैः पद्मिनीं मुद्रिताननाम् ।
परिपूर्णोऽनुरागेण प्रातर्जयति भास्करः ॥

इत्यत्र किरणस्पर्शकरणकमुकुळितपद्मिनीकर्मकविकासानुकूलव्यापारवदभिन्नो भास्करो जयतीति वाक्यार्थश्शक्त्यैव तावत्प्रतीयते । हस्तस्पर्शकरणकनायिकाविशेषकर्मकानुनयनानुकूलव्यापारवदभिन्न इत्यादिश्चापरोऽर्थ उभयत्रानुषक्ततया तयैव शक्त्या शक्त्यन्तरेण व्यक्त्या वा सर्वथैव प्रतीयत इत्यत्र सहृदय एव प्रमाणम् । एवं च द्वाविमौ वाक्यार्थौ सव्येतरगोविषाणवदत्यन्तासंस्पृष्टौ यदि स्यातां तदा भगवतो भास्करस्य कामुकत्वं कमलिन्या नायिकात्वं च सकलप्रतीतिसिद्धं विरुद्धं स्यात् । द्विप्रधानत्वेन वाक्यभेदश्चापद्येत । यदि चापरोऽर्थः प्रकृतकर्तर्यारोप्यते तदा कमलिनीविकासकर्ता नायिकानुनयकर्ता