पृष्ठम्:अलङ्कारमणिहारः.pdf/४३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
429
समासोक्तिसरः (२५)

नयनयुगम् । हृष्यति हृदयं विकसति गळति तमो मिळति मञ्जुलच्छाया ॥ ७३६ ॥

 अत्र प्रस्तुतेन कौस्तुभदर्शनवृत्तान्तेनाप्रस्तुतोदयमानभानुदर्शनवृत्तान्तः प्रतीयते । अत्र नयनयुगं हृष्यति, हृदयं विकसतीत्यत्र सरूप्याच्चक्रवाकमिथुनहर्षकमलविकासौ प्रतीयेते । गळति तमः, मिळति मञ्जुलच्छायेत्यत्र श्लेषेणान्धकारनिरासकान्तिलाभाविति पूर्वोदाहरणाद्वैलक्षण्यम् ॥

 अत्र कुवलयानन्दकृतः- "प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सारूप्याद्वा यदप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत् प्रस्तुते विशेष्ये समारोपार्थं, सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भगोचरत्वायोगात् । ततश्च समासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुतोहतुः । न तु रूपक इव प्रस्तुते अप्रस्तुतरूपसमारोपोऽस्ति । मुखचन्द्र इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रपदसमभिव्याहारवत् 'रक्तश्चुम्बति चन्द्रमाः' इत्यादिसमासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोस्तद्वाचकपदसमभिव्याहारस्याभावात् ‘निरीक्ष्य विद्युन्नयनैः' इत्याद्येकदेशविवर्तिरूपकोदाहरण इव प्रस्तुते अप्रस्तुतरूपसमारोपगमकस्याप्यभावात् । तत्र हि विद्युन्नयनैरित्यत्र निरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूपमयूरव्यंसकादिसमासव्यवस्थितादुत्त्तरपदार्थभूतनयनान्वयानुरोधात्पयोदेऽनुक्तमपि द्रष्टृपुरुषत्वरूपणं गम्यमवगम्यते । न चेह तथा निरीक्षणवत् ‘त्वय्यागते किमिति वेपत एष सिन्धुः’ इति श्लोके सेतुकृत्त्वादिवच्चाप्रस्तुतासाधारणवृत्तान्त उपात्तोस्ति । नापि श्लिष्टसाधारणादिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरप्रस्तुतवृत्तान्तस्य विद्युन्नयनवत्प्राधान्यमस्ति । येन तदनुरोधात् ‘त्वं सेतुमन्थकृत्' इत्यत्रेव प्रस्तुतेऽ-