पृष्ठम्:अलङ्कारमणिहारः.pdf/४३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
427
समासोक्तिसरः (२५)

 अत्र भक्त्युन्मुखस्वमतिवृत्तान्ते वर्ण्यमाने सामोदेत्यादिक्रियाविशेषणसाम्याद्वल्लभस्वयंग्रहाश्लेषप्रसक्तनायिकावृत्तान्तः प्रतीयते ॥

 स्फुटकुचमुखवर्णैषा वृत्तातुलनाभितोऽतिगम्भीरा। कविवाणी ललितपदाश्लेषेण हरेर्मुदं ददातेि पराम् ॥ ७३३ ॥

 कुः कुवर्णः कवर्गो वा चः चवर्णश्च मुखं येषां तानि वर्णानि अक्षराणि स्फुटानि यस्यास्सा तथोक्ता । अन्यत्र स्फुटाः कुचमुखवर्णाः स्तनवदनवर्णाः यस्यास्सा तथोक्ता । अविद्यमाना तुलना साम्यं यस्यास्सा तथोक्ता । वृत्तैः मात्रावर्णभेदभिदुरघ्छन्दोनिष्पन्नैः श्लोकैः वृत्तेन भगवच्चरित्रेण वा अतुलना असदृगित्यर्थः । लोकोत्तरवृत्तघटिततयाऽतिश्लाघ्येति भावः ।‘वृतं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले' इत्यमरः । अभितः समन्ततः अतिगम्भीरा ‘ध्वानिमत्ता तु गाम्भीर्यम्’ इत्युक्तगाम्भीर्यगुणशालिनीत्यर्थः । पक्षे-वृत्ता आवर्तवद्वर्तुला अतुला असदृशी या नाभिः तया नाभितः सार्वबिभक्तिकस्तसिः । अतिगम्भीरा अतिगम्भीरवर्तुलासदृशनाभिरित्यर्थः । ललितानि पदानि सुप्तिङन्तात्मकानि यस्यां सा, ललिते पदे चरणे यस्यास्सा तथोक्ता च कविवाणी श्लेषेण पक्षे- आश्लेषेणेति छेदः । आलिङ्गनेनेत्यर्थः। अत्र कविभारतीवृत्तान्ते प्रस्तुते स्फुटकुचमुखेत्यादिविशेषणसाम्यात् वाणीशब्दगतस्त्रीलिङ्गमहिम्ना चाप्रस्तुतोत्कण्ठितनायिकावृत्तान्तः प्रतीयते । पूर्वत्र विशेषणानि साधारणानि । इह तु श्लिष्टानीति विशेषः । साधारणत्वं च श्लेषेण विनैव प्रकृताप्रकृतवृत्तान्तानुगतत्वम् ॥