पृष्ठम्:अलङ्कारमणिहारः.pdf/४३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
424
अलंकारमणिहारे

दुर्लभत्वादिति भावः । अत एव ह्यधिकरणसारावळ्यां “नित्यश्रीर्ब्रध्नबिम्बे' इति विशेषितमाचार्यैः ‘आप्रणखात्सर्व एव सुवर्णः’ इति श्रुतिरत्रानुसन्धेया । इयं वक्ष्यमाणमालादपिकानुकूला ॥

 शेषाचलाभिमुखता येषां प्रोदञ्चिता न किंचिदपि । शेष्यचलाभिमुखत्वं नैष्यन्त्येते जनुस्सहस्रेऽपि ॥ ७२६ ॥

 शेषिणः सर्वेश्वरस्य भगवतः अचलं निश्चलं यत् अभिमुखत्वं तत्कटाक्षगोचरत्वमिति यावत् । नैष्यन्ति न प्राप्नुवन्ति शेषाचलाभिमुख्यरूपोपायाभावे भगवदाभिमुख्यरूपफलं दुर्लभमिति भाव । अत्रापि विनाशब्दार्थवाचको न प्रयुक्तः । इयमेकगुणेनान्यदोषोदयरूपोल्लासालंकारानुकूला ॥

 त्रासस्पर्शविमुक्ता मुक्ता इव दोषगन्धसंत्यक्ताः ।औज्ज्वल्यमुखास्सुगुणा जाज्वल्यन्ते फणाभृदचलमणेः ॥ ७२७ ॥

 अत्र संत्यक्तशब्दः । उपमानुकूला चेयम् ॥

 ज्ञानानन्दत्वाद्याः श्रीनाथगुणास्सुदूरितावद्याः । सूरकरा इव हृद्या वारिततमसश्शुभास्सदास्वाद्याः ॥ ७२८ ॥

 अत्र सुदूरितशब्दः । इयमप्युपमानुकूलैव ॥

 अलंकारभाष्यकारस्तु ‘नित्यसंबन्धानामसंबन्धवचनं विनोक्तिः' इत्याह । तस्य मते तु नैतान्युदाहरणानि ॥