पृष्ठम्:अलङ्कारमणिहारः.pdf/४२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
423
विनोक्तिसरः (२४)

 इयं दीपकपरिसंख्यानुकूला ॥

 रागं विना यथा स्त्री वेगं पयसो विना यथा तटिनी । त्यागं विना यथा श्रीर्योगं शौरेर्विना तथैव मतिः ॥ ७२३ ॥

 पूर्वं क्रियागुणादिसंबन्ध आवश्यकः । इह तूपमामहिम्नैवावगम्यते स इति न तथा ॥

 इयं च न केवलं विनाशब्दसद्भाव एव भवति अपितु विनाशब्दार्थवाचकसद्भावेऽपि । तेन नञ्, निर, वि , अन्तरेण , ऋते , विकल, वियुक्त, रहित, दूरित, विधुर इत्यादिप्रयोगसद्भावेऽपि । यथ-

 फलमन्तरेण शाखी जलधिर्जलमन्तरेण यदि भायात् । बलमन्तरेण राजाऽप्यलमहिगिरिमन्तरेण भूर्भायात् ॥ ७२४ ॥

 बलमन्तरेण राजाऽपि यदि भायादित्यन्वयः । अत्रान्तरेणशब्दः विनार्थकः प्रयुक्तः । मिथ्याध्यवसितिदीपकानुकूलेयम् ॥

 अम्बरमभानुबिम्बं बिम्बं भानोरनम्बुरुहनयनम् । अम्बुजनयनोऽनम्बुधिसुतस्सुतेजस्तया विभायात्किम् ॥ ७२५ ॥

 अत्र विनार्थको नञ् प्रयुक्तः । अनम्बुरुहनयनं ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ’ इति श्रुतिप्रथितपुण्डरीकाक्षरहित- मित्यर्थः। अनम्बुधिसुतः श्रीविश्लिष्ट इत्यर्थः । सुतेजस्तया सुवर्णवर्णतयेति भावः । विभायात्किम् । श्रीविश्लिष्टत्वे ताद्विध्यस्य