पृष्ठम्:अलङ्कारमणिहारः.pdf/४२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
422
अलंकारमणिहारे

 अत्र कार्श्यचाञ्चल्यविनाकृतयोर्वस्तुनोः रम्यताऽरम्यते इति भवतीयं मिश्रता । प्रतिवस्तूपमनुकूला परिसंख्यानुकूला च ॥

 फणिराजगिरीशिरोमणिगुणराजी भजति रम्यतां सम्यक् । दोषं विना मनागपि विना कलङ्कं शशाङ्करेखेव ॥ ७२० ॥

 नित्यं फणिगिरिनाथे प्रत्यङ्ङात्माऽऽत्मभरसमर्पणतः । हृल्लेखो मणिरिव भात्युल्लेखनतो विना मलीमसताम् ॥ ७२१ ॥

 प्रत्यङ् आत्मा जीवः इत्यर्थः । 'ङमो ह्रस्वादचि ङमुण्णित्यम्’ इति ङकारात्परस्याचो नित्यं ङमुडागमस्संहितायाम् । मणिः उल्लेखनात् शाणोद्धर्षणादिव प्रत्यगात्मा भगवति भरसमर्पणात् मलीमसतां मृदादिसंसर्गकृतां मलिनतां विना हृल्लेखः हृद्यः भाति । हृदयं लिखतीति हृल्लेखः हृदयशब्दोपपदकात् लिखेः कर्मण्यण् । ‘हृदयस्य हृल्लेखयदण्लासेषु’ इति हृदयशब्दस्य हृदादेशः । पक्षे–अविद्याकृतमज्ञानमालिन्यं विना ‘मणिवर इव शौरेर्नित्यहृद्यः' इत्याद्युक्तरीत्या भगवतो हृदयंगमस्सन् भाति नित्यासंकुचितज्ञानो दीप्यत इत्यर्थः । अनयोराद्या शुद्धोपमानुकूला इतरा तु श्लेषमूलोपमानुकूला ॥

 मूलं विनाऽपि वीरुद्विलसेत्कूलं विनाऽपि शैवलिनी । नालं व्यालेन्द्राचलपालं देवं विना क्वचित्कमला ॥ ७२२ ॥