पृष्ठम्:अलङ्कारमणिहारः.pdf/४२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
421
विनोक्तिसरः (२४)

धानाद्यैः । तव दर्शनाद्विनाऽच्युत भविता जनता कृतार्थतां न गता ॥ ७१६ ॥

 अत्र भगवद्दर्शनेन विनाकृतस्यारम्यता ॥

 यथावा--

 तालेन विना गानं शीलेन विना न शोभते ज्ञानम् । बालेन विना गृहिणी पालेन विना हरे त्वया धरणी ॥ ७१७ ॥

 अत्रापि तालादिविनाकृतस्यारम्यता--

 रम्यतायां यथा--

 मोहेन विनाऽच्युतभाग्दाहेन विना दवस्य भाति वनम् । ग्राहेण विना जलधिः स्नेहेन विना खलेषु सुजनश्च ॥ ७१८ ॥

 अच्युतं भजतीत्यच्युतभाक् भगवद्भक्त इत्यर्थः । ‘भजो ण्विः’ इति ण्विः। जलधिः सरः जलानि धीयन्तेऽस्मिन्निति विग्रहः 'अब्धी सरस्सरस्वन्तौ’ इति रत्नमाला । अत्र मोहादिना विनाकृतस्य रम्यता । आद्ये केवले, इतरे तु दीपकानुकूले ॥

 मिश्रिता यथा--

 कार्श्येन विना विभवस्तव देवि विभाति जातु न तु मध्यम् । चाञ्चल्येन विना हृद्विभासते न तु विलोचनद्वन्द्वम् ॥ ७१९ ॥