पृष्ठम्:अलङ्कारमणिहारः.pdf/४२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
419
सहोक्तिसरः (२३)

करं नारकं नरकं 'स्यान्नारकस्तु नरकः' इत्यमरः । प्रददासि 'ये मां द्विषन्ति संमूढा नारके पातयामि तान्' इत्युक्तरीत्या दुर्गतिं वितरसीत्यर्थ । प्रियेभ्यस्तु सत्वरमित्यत्र सः तु अरं इति छेदः । सः त्वमिति योजना । अतिक्रान्तो दुःखमतिदुःखः तं तथोक्तम् । अत्यादयः क्रान्ताद्यर्थे द्वितीयया’ इति समासः । ‘यन्न दुःखेन संभिन्नं’ इत्युक्तदिशा दुःखासंभिन्नमित्यर्थः । अरं रेफविधुरं नारकं नाकमित्यर्थः ‘ते ह नाकं महिमानः' इत्यादाविव नाकशब्दोत्र परमव्योमपरः । प्रददासि 'नयामि परमां गतिम्’ इत्यादिना स्वेनैवोक्तत्वादिति भावः । अत्रापि पूर्वोदाहरणवदेव तुल्ययोगिताश्लेषव्याजस्तुत्यनुप्राणितत्वम् । वैलक्षण्यं तु अहिगिरिसुरद्रो इति रूपकातिशयोक्तिसंकिर्णसाभिप्रायविशेष्यलक्षणपरिकराङ्कुरानुप्राणितत्वं संप्रदानससाहित्यं चेत्यवधेयम् ॥

 एवं ‘गुरुभिस्सह शुश्रूषा’ इति पूर्वदर्शितमालासहोक्त्युदाहरणेऽपि शुश्रूषादेर्लसनरूपैकधर्मान्वयलक्षणतुल्ययोगितानुप्राणितत्वमनुसन्धेयम् ।

 सर्वाण्येतान्युदाहरणानि सहार्थकशब्दघटितान्येव सहोक्तेः प्रदर्शितानि । तदघटितत्वेन गम्या यथा--

 पुरविमथनोत्तमाङ्गं धरणितलेन त्रिविक्रम श्रीमन्। अस्ति स्तिमितं त्वत्पदकमलेन कृतं पुरा बलेस्सवने ॥ ७१४ ॥

 हे त्रिविक्रम ! इदं विवक्षितार्थस्य तदवतारासाधारणतां द्योतयितुम् । बलैः वैरोचनेः सवने यागे । धरणितलेन भूतलेन सहेत्यर्थः । विनाऽपि सहशब्दयोगं तृतीया भवतीत्यवोचाम । पुरविमथनस्य शिवस्य उत्तमाङ्गं मस्तकं त्वत्पदस्य त्वच्चरणस्य कम-