पृष्ठम्:अलङ्कारमणिहारः.pdf/४१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
408
अलंकारमणिहारे

भेदमिति ध्येयम् । हृद्यत्वं चालंकारसामान्यलक्षणागतं सर्वालंकारसाधारणमेव । तच्चात्र कार्यकारणपौर्वापर्यविपर्ययात्मिकया श्लेषभित्तिकाभेदाध्यवसानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्याऽनुप्राणने भवतीति वदन्ति ॥

 यांस्त्वं पश्यसि तेषां विकसन्ति समं मुखानि च सुखानि । अरयो निरयाश्च समं सरयं दूरीभवन्ति मुरवैरिन् ॥ ६९५ ॥

इति तुल्ययोगितादावतिप्रसङ्गवारणायावच्छिन्नयोरित्यन्तम्। तत्र हि द्वयोरपि प्रधानयोरेव सहार्थसंबन्धः । इह तु सहशब्दयोगिनोऽ प्रधानत्वनियमाद्गुणप्रधानभावावच्छिन्नयोरेवार्थयोस्सहार्थसंबन्ध इति नातिप्रसङ्गः ॥

यथा—

 दशवदनादिमकदनैर्विशकलितं सकललोकम- विविषता । भूमेर्भारेण समं भवता भगवन् जवादवातारि ॥ ६९६ ॥

अविविषता अवितुमिच्छता । अत्र भगवदवतारकार्यस्य भूभारावतरणस्य पौर्वापर्यविपर्ययानुप्राणितस्सहभावः ॥

यथावा—

 पावनतावकपदयुगसेवनसंस्फीतकौतुका लोकाः । सिंहाचलेन साकं सिंहासनमच्युताधिरोहन्ति ॥ ६९७ ॥