धर्मोपमानलुप्ता तु वाक्ये वृत्तौ च तद्धिते ॥
वृत्तौ समासे इत्यर्थः ॥
वाक्ये धर्मोपमानलुप्ता यथा--
येन समानः कश्चन मानवलाके क्वाऽपि न लुलोके । तेन मयाऽपि दयाब्धे श्रीनिलय प्रार्थ्यसेऽपवर्गमहो ॥ ५६ ॥
अत्र येन मया समानो मानवलोके न लुलोके इति विशिष्योपमानानुपादानाद्धर्मानुपादानाच्च वाक्ये धर्मोपमानलुप्ता ॥
समासे धर्मोपमानलुप्ता यथा--
क्वापि सुदर्शनसदृशो नादर्शि न दृश्यते न च द्रष्टा । येन पुरा वनमाली मालिशिरस्तत्सुमालिवदलावीत् ॥ ५७ ॥
अत्र क्वापि सुदर्शनसदृशो नादर्शीत्यादिना उपमानस्य समासगतस्य निषेधात्समासगा धर्मोपमानलुप्ता । द्रष्टेति कर्मणि लुट् । तत् दुश्छेदतया प्रसिद्धं मालिनः तन्नाम्नोऽसुरस्य शिरः। सुमालिवत् सुमानां कुसुमानां आळिवत् पङ्क्तिवत् सुमालिनामासुरशिरोवत् इत्यपि प्रतीयते । अलावीत् अच्छिनत् । अनयोश्च नोपमानस्वरूपमेव प्रतिषिध्यते । किन्तूपमानदर्शनमिति नानन्वयालङ्कृतिभ्रमः कार्यः । नापि वक्ष्यमाणचतुर्थप्रतीपशङ्कायुक्ता, तस्य वर्ण्येनान्यस्योपमाया अनिष्पत्तौ चमत्कारितया उपमानदर्शननिषेधेन चमत्कारिणोऽस्माद्वैलक्षण्यादिति दिक् ॥