पृष्ठम्:अलङ्कारमणिहारः.pdf/४०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
403
व्यतिरेकसरः (२२)

अत्र धर्मद्वयेनैव न्यूनोऽसि धर्मान्तरेण तु सम इति प्रतीतिकृतविच्छित्तिविशेषादलंकारता । एवंच लक्षणे अपकर्षोऽप्येवं जातीयो देयः ॥

 यदपि कुवलयानन्दकृताऽनुभवपर्यवसायिनो व्यतिरेकस्योदाहरणमुक्तम्-

दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥

इति, तन्निपुणं न नीरीक्षितमायुष्मता । तथाहि-किमत्रोपमानादुत्कर्षरूपो व्यतिरेकोऽनुभवपर्यवसायी ? आहोस्वित्सर्वस्वकाराद्युक्तदिशा अपकर्षरूपः ? नाद्यः -उत्कर्षप्रयोजकधर्मस्यात्रानुपस्थितेः न च श्लेषेण दीर्घाक्षरस्योपस्थितिरस्त्येवेति वाच्यम्, तस्योपमानवृत्तित्वेनोपमेयानुत्कर्षकत्वात् । अर्थान्तरेणाकृतिरूपेण सह श्लेषमूलकाभेदाध्यवसायेन साधारणीकरणाच्च । अन्यथा श्लेषमूलकोपमोच्छेदापत्तेः । सुधांशुबिम्बमिव नगरं सकलकलमित्यादावपि कलकलसहितत्वकलासाकल्ययोर्वस्तुतो वैधर्म्यरूपत्वात् । न च सकलकलमित्यत्रोपमायामेव कवेर्निर्भरः प्रकृते तु भेदशब्दोक्त्या वैलक्षण्ये स इति भ्रमितव्यम् । यद्यत्रोपमाविघटनरूपो व्यतिरेको निर्भरसहस्स्यात् आकाशब्दश्लेषोऽनर्थकस्स्यात् । कृपणस्य कृपाणस्य च भेदो दीर्घाक्षरादेवेत्येव ब्रूयात् । न ह्यत्र व्यतिरेके श्लेषोऽनुकूलः । प्रत्युत प्रतिकूल एव । उपमायां पुनरनुकूलः । प्रतिकूलस्य दीर्घाक्षररूपवैधर्म्यस्य साधारणीकरणात् आकृतिभेदस्य चोपमानोपमेययोरपि सत्त्वात् । एवं हि कवेराशयः—'कृपणकृपाणयोस्तुल्यतैव, दृढतरेत्यादिविशेषणसाम्यात् । अक्षरभेदस्त्वाकारभेदत्वादविरुद्ध एव’ इति सहृदयैराकलनीयम् । न द्वितीयः तस्योक्तिमात्रेणाप्यसंगतेः, अहृद्यत्वाच्च । तस्मादत्र गम्योपमैव