पृष्ठम्:अलङ्कारमणिहारः.pdf/४०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
401
व्यतिरेकसरः (२२)

 इह कश्चिद्द्विजराजः पुरुषोत्तममन्तरे दधद्विमलः। मलिनोऽन्यो द्विजराजस्संततमप्यन्तरेणकं बिभ्रत् ॥ ६८८ ॥

 कश्चित् द्विजराजः अग्रजन्मनामग्रगण्यः । अन्तरे मनसि पुरुषोत्तमं दधत् ध्यायन्निति यावत् । विमलः निर्मलः । अन्यः द्विजराजः चन्द्रमाः अन्तरे अणकं गर्ह्यं यं कंचित् बिभ्रत् ध्यायन् मलिनः । अन्यत्र अन्तः स्वबिम्बमध्ये एणकं कुरङ्गं बिभ्रदित्यर्थः । एषूदाहरणेषूपमानतद्विशेषणोपादानसामर्थ्यादाक्षिप्त एव व्यतिरेकः, न तु व्यङ्ग्य इति जात्वपि भ्रमितव्यम् । सत्यनुपपत्तिलेशे व्यञ्जनाया अनुन्मेषात् । इह च भगवद्विशेषणानां यथाकथंचित्प्रशंसार्थत्वेऽप्युपमानतद्विशेषणोपादानस्य भगवदुत्कर्षमन्तरेणानुपपत्तेर्जागरूकत्वात् । यत्र तूपमानतद्विशेषणोपादानमन्तरेणैवोपमेयविशेषणैस्सुन्दरो देवदत्त इत्यादाविव वस्तुस्थितिप्रकाशनेन चरितार्थैरप्यभिप्रायविशेषेण स्वविलक्षणविशेषणविशिष्टधर्मन्तरापेक्षया वर्ण्यस्योत्कर्षः प्रतीयते स व्यञ्जनाविषयः ॥

 यथा--

 जगतां जीवनदाने शरदां शतकेऽपि नैषि नीरसताम् । न च पाण्डिमानमयसे कामपि धत्से श्रियं सदोपचिताम् ॥६८९॥

 शरदां शरदृतूनां वत्सराणां च । अयं वारिदाद्भगवतो

व्यतिरेकध्वनिरर्थशक्तिमूलः ॥

 ALANKARA
51