पृष्ठम्:अलङ्कारमणिहारः.pdf/४०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
400
अलंकारमणिहारे

 जननि जनस्तावकजनसङ्गात्कुकुराधिनाथपदमयते । अन्योऽश्नुतेऽन्तरेणकरसंयोगात्कुक्कुराधिनाथपदम् ॥ ६८७ ॥

 हे जननि ! तावकजनसङ्गात् भागवतसंसर्गादित्यर्थः । जनः पामरोऽपीति भावः । कुकुराधिनाथस्य यदुकुलसार्वभौमस्य भगवतः पदं चरणं अयते प्रपन्नो भवतीत्यर्थः । यद्वा-भगवतस्स्थानं प्राप्नोतीत्यर्थ । अन्यः तावकजनातिरिक्तः जनः पामरः जनो लोके महर्लोकात्परलोकेऽपि पामरे’ इति मेदिनी । अन्तरे अन्तरङ्गे अणकानां गर्ह्याणां संयोगात् । ‘खेटगर्ह्याणकास्समाः' इत्यमरः । कुकुराणां शुनां ‘कुक्कुरो मृगदंशकः' इत्यमरः । अधिनाथः श्वक्रीडी कश्चिज्ज्नः यो हि—‘श्वक्रीडी श्येनजीवी च' इत्यादिस्मृतिभिर्हव्यकब्यानर्हतया निन्द्यते । तस्य पदं स्थानं चरणं वा अश्नुते प्राप्नोति गर्हितस्थानसेवी भवतीति भावः । पक्षे— अन्तरेणेति छेदः मध्ये इत्यर्थः । ‘अथान्तरेऽन्तरा । अन्तरेण च मध्ये स्युः ' इत्यमरः । कसंयोगात् कवर्णयोस्संयोगात् अज्भिरव्यवहिततयाऽवस्थानात् । कुक्कुराधिनाथपदं अश्नुते । कुकुराधिनाथपदस्यैव उक्तरीत्या मध्यगतककारस्य ककारान्तरेण संयुक्तत्वे कुक्कुराधिनाथपदतानिष्पत्तेरिति भावः । अत्र अन्तरेणेत्येतत्कुक्कुरशब्दमात्रकटाक्षेण, तथा सत्येव ककारसंयोगस्य मध्यस्थतासंभवात् । यद्वा- कुक्कुराधिनाथपदशब्दाभिप्रायेणैवास्तु, तस्मिंश्च शब्दे आद्यन्तवर्णयोर्मध्यवर्तितायाः रेफादीनामिव ककारस्यापि दुरपलपत्वादिति ध्येयम् ॥