पृष्ठम्:अलङ्कारमणिहारः.pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
33
उपमालंकारसरः (१)

पदमतिङ्' इति समासस्य सद्भावेन समासगणनयैवैतस्यापि क्रोडीकाराद्वाचकलुप्ताविभागे णिनेः पृथग्ग्रहणं नाद्रियन्ते ॥५२॥

 क्विपि वाचकलुप्ता यथा--

 अळिबालति हरिनीलति घनजालति सन्ततं तमालति च । नीला तव रुचिमाला नीलाचलमौलिविहृतिलोलात्मन् ॥ ५३ ॥

नीलाचल इति वेङ्कटाद्रेरेव नामान्तरम्--
नलस्य वानरेन्द्रस्य यस्मान्नित्यमवस्थितिः ।
तस्मान्नीलाचलं नाम्ना वदन्त्येनं महर्षयः ॥

इति वाराहीयवेङ्कटाचलमाहात्म्योक्तेः । अत्र अळिबालतीत्यादौ अळिबाल इवाचरतीत्यर्थे क्विपि नीलत्वं भगवद्रुचिमालायास्तेषां च साधारणो धर्मः । आत्मन्निति पृथक्पदं परमात्मन्निति भगवतस्सम्बोधनम् ॥

 तद्धिते वाचकलुप्ता यथा--

 वेङ्कटपतिपदपङ्कजकिङ्करतायां न जातु यस्य रुचिः । दुर्विषयेष्वेव सदा वर्वर्ति नरोऽशुचिः खरकुटी सः ॥ ५४ ॥

 खरकुटी खरनिवासक्षुद्रतमस्थानविशेषः । अत्र खरकुठीव पुरुष इत्यस्मिन्नर्थे ‘इवे प्रतिकृतौ’ इति विहितस्य कनः ‘लुम्मनुष्ये' इति मनुष्यार्थे सुब्विधानात् खरकुटीत्यत्र वाचकलोपस्तद्धिते । ‘लुपि युक्तवद्व्यक्तिवचने' इति युक्तवद्भावेन प्रकृतिलिङ्गता । अशुचित्वं साधारणो धर्मः । ‘वर्वर्ति स एष खरकुटी-

 ALANKARA
5