पृष्ठम्:अलङ्कारमणिहारः.pdf/३८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
378
अलंकारमणिहारे

 यथा वा-

 यस्यास सहजदेयं राज्यं यस्यापि सहजहेयं तत् । देहे भिदैव नान्या भिदाऽनयोर्भवति रामलक्ष्मणयोः ॥ ६५३ ॥

 यस्य रामस्य राज्यं सहजदेयं सहजे भ्रातरि भरते देयं आस बभूव । आसेति तिङन्तप्रतिरूपकमव्ययम् । ‘ इदमास चिह्नम्' इतिवत् । न त्वस्तेर्लिट् 'तिङन्तत्वे ‘अस्तेर्भूः’ इति लिटि भ्वादेशापत्तेः । यद्वा- ‘अस दीतौ ' इत्यस्माल्लिडेव । दीयत इति देयं कर्मणि ‘अचो यत्' इति यत् । राज्यं सहजदेयं दिदीपे इत्यर्थः।

अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च ।
ह्रेष्टा भ्रात्रे प्रदास्यामि भरतायाप्रचोदितः ।

इति तदुक्तेः । यद्वा-सहजेन भरतेन देयं दातुं योग्यमासीदित्यर्थः । 'तद्ददामि पुनस्तुस्यं यथा त्वमददा मम' इति भरतोक्तेः । यस्य लक्ष्मणस्यापि तत् राज्यं सहजे भ्रातरि सहजेन भ्रात्रा वा हेयं देयं आस । 'ओहाक् त्यागे’ ‘अचो यत्' इति यत् ‘त्यागो विहापितं दानम्' इत्यमरः । वस्तुतस्तु सहजेन निसर्गेणैव हेयं त्याज्यमित्यर्थः। ‘सहजस्तु निसर्गे ना सहोत्थे पुनरन्यवत्' इति मेदिनी । ‘सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम्' इत्यादिकमिहानुसन्धेयम् । कैङ्कर्यैकरतित्वात्तस्य राज्यं परिहार्यमासीदिति भावः । अनयोः सहजदेयसहजहेयराज्ययोः रामलक्ष्मणयोः देहे विग्रहे एव