पृष्ठम्:अलङ्कारमणिहारः.pdf/३८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
377
व्यतिरेकालंकारसरः (२२)

प्ययं पिशुवर्णभेदः अर्थे शब्दतादात्म्याभिमानकृत इत्यवधेयम् । अर्थान्तरं च -हे शुभे ! इति संबुद्धिः । अद इति छेदः । अत्र अनयोः पिकशुकयोः अदः परस्परसादृश्यं सदा चित्ते क्रियतां अनयोस्त्वद्वचनशिक्षितध्वनिमाधुर्यत्वेन तौल्यमस्तीति त्वया । परिचिन्त्यतामिति ॥

 यथा वा--

 अमृतेप्सुविबुधसेव्यौ स वासुदेवश्च वासुकिश्चापि । तुल्यौ वैलक्षण्यं त्वनयोर्ननु देवकीति मात्रैव ॥ ६५२ ॥

 सः प्रसिद्धः वासुदेवश्च वासुकिश्चापि अमृतं ईप्सवो ये विबुधाः ब्रह्मविदः देवाश्च तैः सेव्यौ अत एव तुल्यौ । अनयोः वैलक्षण्यं तु देवकीति मात्रैव देवकीति प्रसिद्धया जनन्यैव ननु । वासुदेवस्य देवकीति मात्रा प्रसिद्धा वासुकेस्तु तादृशी माता नेत्येतावदेव वैलक्षण्यम् । अमृतेप्सुविबुधसेव्यत्वं तु तुल्यमेवेति भावः । पक्षे- वासुदेववासुकिशब्दयोः देवकी इति मात्रैव अल्पमेव वैलक्षण्यम् । आद्ये देवेति वर्णौ अन्त्ये कीति वर्ण इत्येतावानेव भेदः आदिमवर्णद्वयस्योभयत्राप्यैकरूप्यादिति भावः 'स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः' इत्यल्पपर्यायेष्वमरः ।

मात्रा कर्णविभूषायां वित्तमाने परिच्छदे ।
अक्षरावयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे ॥

इति मेदिनी च ॥

 ALANKARA
48