पृष्ठम्:अलङ्कारमणिहारः.pdf/३८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
376
अलंकारमणिहारे

 यथा वा--

 परबलहरहरिकलितौ श्वेतो द्वीपो द्विपश्च खलु तुल्यौ । कियती भिदाऽनयोस्स्यात्सवर्णयोरेव सर्वथाऽपि सतोः ॥ ६५० ॥

 श्वेतो द्वीपः श्वेतो द्विपः ऐरावतश्च । परेषां द्विषां बलं सामर्थ्यं सैन्यं वा तस्य हरः हर्ता हरिर्भगवान् तेन कलित इति श्वेतद्वीपपक्षे । ऐरावतपक्षे तु-परः वैरी बलः बलासुरः तस्य हरः हरिरिन्द्रः तेन कलितः । तयोरेकशेषः । अत एव तुल्यौ । सर्वथाऽपि सर्वप्रकारेणापि सवर्णयोः तुल्यवर्णयोरेव सतोः द्वयोरपि श्वेतत्वादिति भावः । पक्षे समानानुपूर्वीकाक्षरयोरेव सतोः अनयोः श्वेतद्वीपश्वेतद्विपयोः भिदा कियती स्यात् सर्वथा तुल्ययोरनयोरनिर्वचनीययत्किंचिद्वैलक्षण्यसद्भावोऽप्यकिंचित्कर इत्यर्थः। पक्षे कियती ईभिदा इति च्छेदः । ईभिदा दीर्घेकारहृस्वेकाराभ्यां भेदः कियती अत्यल्पेत्यर्थः । यत्किंचिद्वर्णभेदस्सन्नपि न गणनीय इति भावः ॥

 यथा वा--

 तद्वचनशिक्षितध्वनिमाधुर्यौ द्वाविमौ समौ मन्ये । अत्र सदापिशुभेदश्चित्ते क्रियतां मदम्व पिकशुकयाः ॥ ६५१ ॥

 हे मदम्ब ! त्वद्वचनेन शिक्षितं ध्वनिमाधुर्यं ययोस्तौ तथोक्तौ द्वौ इमौ पिकशुकौ समौ मन्ये । अत्र अनयोः पिकशुकयोः पिशुभेदः पि शु इति वर्णाभ्यामेव वैलक्षण्यं नान्यवर्णयोरिति भावः । चित्ते क्रियतां अवधार्यताम् । शब्दगतोऽ-