पृष्ठम्:अलङ्कारमणिहारः.pdf/३८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
375
व्यतिरेकसरः (२१)

 यथावा-

 पूर्वं नरकानुगुणावाशुगचक्रेण लूनमूर्धानौ । भवता सदूषणौ यौ मुखमात्रभिदा तयोर्हि मुरखरयोः ॥ ६४८ ॥

 नरकस्य नरकासुरस्य निरयस्य च अनुगुणौ अनुरूपौ एकत्र तन्मित्रत्वात् अपरत्र पापकारित्वादिति भावः । दूषणेन दोषेण दूषणनाम्ना रक्षसा च सह वर्तेते इति सदूषणौ । यौ पूर्वं भवता आशुगेन चक्रेण सुदर्शनेन आशुगानां विशिखानां चक्रेण जालेन विलूनमूर्धानो अभूतामिति शेषः । तयोः मुरखरयोः तन्नाम्नोर्दैत्यरक्षसोः मुखमात्रेण भिदा मुरस्य त्रिशीर्षत्वेन त्रिमुखता खरस्य एकशीर्षतया एकमुखतैवेतीयानेव भेदः उक्तगुणानां तौल्यात् । सुवर्णखवर्णाभ्यामेव भेद इत्यर्थान्तरं च ॥

 यथा वा-

 ये निन्दन्त्यखिलगुरुं गोविन्द त्वाममन्ददुरितवशाः । भाषणमेषां भषणं केवलमाकारतोऽनयोर्भेदः ॥ ६४९ ॥

 भाषणं उक्तिः, भाषतेर्ल्युट्। भषणं श्वरवः ‘भष भर्त्सने' 'इह भर्त्सनं श्वरवः' इत्युक्तेः । अस्माल्ल्यट् । अनयोः भाषणभषणयोः आकारमात्रतः मनुजशुनकमुखोद्गीर्णत्वरूपस्वरूपमात्रे भेदः अन्यत्र अकारदीर्घाकाराभ्यामेव भेदः । अन्यवर्णानुपूर्वी तु तुल्यैव ॥