पृष्ठम्:अलङ्कारमणिहारः.pdf/३८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
374
अलंकारमणिहारे

रस्यायमेव विशेषो नान्य इति भावः । वाच्यवाचकयोस्तादात्म्यमिह शरणम् । अन्यथा विवक्षितव्यतिरेकस्यार्थगतत्वासंभवात् । किंच अत्र एतत्स्तुतिविषये मूकीभावो विशिष्यते। अस्माद्दशां मौनेनावस्थानमेव श्रेय इत्यर्थः । अत्र श्लेषानुप्राणित उत्कर्षापकर्षयोरविभावनादनुभयव्यतिरेकः। एवमुत्तरोदाहरणेष्वपि द्रष्टव्यम् ॥

 यथावा--

 त्वं खलु जगतीमाता जगतीत्राताऽब्धिपुत्रि तव दयितः । सर्वैर्गुणैस्सदृशयोर्मात्राभेदः परं भवति युवयोः ॥ ६४६ ॥

 मात्रया लेशतः भेदः अनिर्वचनीयं यत्किंचिदेव वैलक्षण्यं न तु सर्वात्मनेति भावः ‘स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः ' इत्यमरः । पक्षे-मावर्णत्रावर्णाभ्यामेव भेद इत्यर्थः ॥

 यथावा--

 कामोऽत्र बाधते मां यमः परत्रानयोस्स्वतस्समयोः । भेदस्तु कायमात्रादाधत्स्व कृपां ततो मयि मुकुन्द ॥ ६४७ ॥

 स्वतः स्वभावत एव समयो बाधितृत्वेन तुल्ययोः । पक्षे–मवर्णसहितयोः अनयोः कामयमयोः भेदस्तु कायमात्रात् शरीरत एव भेदो न तु गुणत इति भावः । यद्वा-कामस्य कायो नास्ति यमस्य तु सोऽस्तीति तन्मात्राद्वेद इत्यर्थः । काकारयकाराभ्यामेव भेद इत्यप्यथाऽनुसंधेयः ॥