पृष्ठम्:अलङ्कारमणिहारः.pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
32
अलंकारमणिहारे

 अत्र सुरनरयोरनिमेषेक्षणं साधारणो धर्म उक्त इति कर्तृक्यङि वाचकमात्रस्य लोप इति बोध्यम् ॥

 कर्मकर्तृणमुलोर्वाचकलुप्ता यथा--

गर्भनिधायंनिदधद्गर्भे भुवनान्यनन्यशरणानि ।
जननीरक्षंरक्षसि घननीरदनील नीरजाक्ष त्वम् ॥

 अत्र गर्भानिव निदधदित्यर्थे गर्भनिधायमिति कर्मणमुलि गर्भाणां भुवनानां च निधानमनन्यशरणत्वं च साधारणो धर्मः 'गर्भे भुवनानि युगविगमसमये’ इति द्वितीयपादे पठितेऽपि निधानं साधारणो धर्मः । जननीव रक्षसीत्यर्थे जननीरक्षमिति कर्तृणमुलि रक्षसीति भगवज्जनन्योस्साधारणो धर्मः 'उपमाने कर्मणि च' इति णमुलि ‘कषादिषु यथाविध्यनुप्रयोगः’ इति णमुल्प्रकृतेर्धातोरनुप्रयोगः ॥

 णिनौ वाचकलुप्ता यथा--

मदमधुरद्विपगामी कामी कस्यांचिदम्बुधिविभूतौ।
मदकलहंसालापी कोपीहापीनदोश्श्रियं दत्ताम् ॥

 कस्यांचिदम्बुधिविभूतौ अम्बुधिविभूतित्वेनाध्यवसितायां लक्ष्म्यामित्यर्थः । कामी कामुको भगवान् मदकलहंसालापी ‘मत्तहंसस्वरो युवा' इति श्रीरामायणोक्तेः । आपीनाः अतिमात्रपीवराः दोषः भुजाः यस्य तथोक्तः । अत्र द्विपगामी हंसालापीत्युभयत्रापि द्विप इव गच्छति हंस इवालपतीत्यर्थे ‘कर्तर्युपमाने' इति विहितणिनौ वाचकलुप्ता । गमनं आलपनं च समानधर्मः । केचित्तु--कोकिलालापिनीत्यादिस्थले ‘उप-