पृष्ठम्:अलङ्कारमणिहारः.pdf/३७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
371
व्यतिरेकसरः (२१)

नः' इति ङीप्संनियोगशिष्टस्तकारस्य नकारः । श्येनः पक्षिणि पाण्डुरे' इति मेदिनीकोशात्तु पुंस्यपि नोपधश्श्येनशब्दोस्तीति ज्ञायते । तस्मात् पिप्पल्यादेराकृतिगणत्वात् ङीष् बोध्यः प्रथमा तयोराद्या पत्रिणी शशमत्तीति शशादनी प्रथिता तन्नाम्ना प्रसिद्धा । अन्त्या त्वदीयकीर्तिस्तु आत्मौजसा निजतेजसा शशिनं शशवन्तं, इन्दुमिति वास्तवार्थः । अत्ति कबळयति आच्छादयतीति यावत् ॥

 यथावा--

 काको रराद हृदयं पिकस्तु तव वचनदास्यतो हृद्यः। द्विजयोरपि जननि तयोः काऽपि भिदा व्यञ्जने स्वरेऽप्यस्ति ॥ ६४१ ॥

 हे जननि ! काकः वायसः ऐन्द्रिरिति भावः । तव हृदयं वक्षः रराद विललेख ‘रद विलेखने ’ लिट् । यद्वा-काकः साधारणो वायसः हृदयं शृण्वतां चित्तं रराद स्वरकार्कश्येन उद्वेजयामासेति यावत् । पिकः कोकिलस्तु तव वचने दास्यतः दासभावात् 'त्वदास्यदास्येऽपि गतोऽधिकारितां न शारदः' इत्यादाविवास्य आपम्ये पर्यवसानम् । हृद्यः तव हृदयप्रियोऽभूत् । पक्षे--शृण्वतां स्वरमाधुर्येण मनोहरोऽभूदित्यर्थः । तयोः काकापिकयोः द्विजयोः विप्रयोस्सतोरपि पक्षिणोस्सतोऽरपीति वस्तुस्थितिः । काऽपि अनिर्वचनीया भिदा भेदः व्यञ्जने चञ्चुपक्षादिचिह्ने स्वरे ध्वनौ च अस्ति 'व्यञ्जनं लाञ्छनश्मश्रुनिष्ठानावयवेष्वपि' इत्यमरः । पक्षे - काकपिकशब्दयोः का पि इति वर्णयोर्विद्यमाना भिदा व्यञ्जने ककारपकाररूपे हलवर्णे स्वरे आकारेकाररूपे अवर्गेऽपि अस्ति हलज्वर्णयोरुभयोरप्य-