पृष्ठम्:अलङ्कारमणिहारः.pdf/३७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
370
अलंकारमणिहारे

 हे हरे ! त्वं कमलाननः कमलायाः श्रियः अननः प्राणयिता । अन्यते अनेनेत्यननः, कमलवदनश्च । तव सुतः ब्रह्मा कमलासनः श्रीनिरासकः अस्यते अनेनेत्यसनः, कमलायाः असन इति विग्रहः । पद्मोपविष्ट इति च । सः उक्तप्रकारः भेदः वैलक्षण्यं न गणनीयः उपेक्षणीयः अत्यल्पभेदस्याकिंचित्करत्वादिति भावः । यतो हेतोः युवां स च त्वं च युवां ‘त्यदादीनां मिथस्सहोक्तौ यत्परं तच्छिष्यते’ इत्यनुशासनात्परभूतयुष्मच्छब्दैकशेषः । लोकेशाविति विदितौ । लोकेशत्वेन विदितयोर्युवयोः कियानयं भेद इति भावः । प्रसिद्ध्यति हि चतुराननस्यापि लोकेशत्वं ‘हिरण्यगर्भो लोकशः इत्युक्तेः । पक्षे नसाभ्यां नसवर्णाभ्यां भेदः गणनीयः । कमलाननकमलासनयोस्तावतैव भेददर्शनादिति भाव । अत्र 'सारसनाभिख्याढ्या' इत्याद्युदाहरणत्रये सारसनेत्यादिश्लेषप्रतिभोन्मीलिततुल्ययोगतानुप्राणितो व्यतिरेक इति विशेषः ॥

 यथावा--

 पत्रिण्यासीच्छ्येनी फणिगिरिनाथ त्वदीयकीर्तिश्च । प्रथमा शशादनीति प्रथिताऽन्त्याऽऽत्मौजसा शशिनमत्ति ॥ ६४० ॥

 हे फणिगिरिनाथ ! पत्रिणी तदाख्या काचिद्विहगी श्येनी श्येनाख्या आसीत् ‘अथ शशादनः । पत्री श्येनः' इत्यमरः। ‘श्येने पत्रिशशादनौ' इत्यमरमाला । “ श्येनाख्यो विहगः पत्री पत्रिणौ शरपक्षिणौ' इति शाश्वतश्च । पत्रिशब्दात् नान्तलक्षणो ङीप् । जातिलक्षणो ङीष् वा । त्वदीयकीर्तिश्च श्येनी आसीत् उक्तोऽर्थः । पक्षे- श्वेतवर्णा अभूत् ‘विशदश्येतपाण्डुराः’ इत्यमरः । श्येतशब्दात् स्त्रीत्वविवक्षायां 'वर्णादनुदात्तात्तोपधात्तो