पृष्ठम्:अलङ्कारमणिहारः.pdf/३७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
369
व्यतिरेकसरः (२२)

टिस्स्वरुश्शम्बः' इत्यमरः । तेन उपसंपन्नः इन्द्रस्य वज्रायुधलाभोऽपि भगवत्कृपायत्त एवेति भावः । एकः अनयोर्मध्ये प्रथमनिर्दिष्टो मुक्तः स्वराट् स्वेन राजत इति स्वराट् अकर्मवश्य इत्यर्थः । ‘स स्वराट् भवति' इति श्रुतेः । सूत्रितं च - ‘अत एव चानन्याधिपतिः' इति । ‘अपहतपाप्मा सत्यसङ्कल्पः' इति श्रवणादेवाकर्मवश्य इति सूत्रार्थः । परः अनन्तरनिर्दिष्ट इन्द्रस्तु स्वाराट् स्वेन न राजत इति स्वाराट् कर्मपरतन्त्र इत्यर्थः । पक्षे-स्वः स्वर्गस्य राट् राजा । स्वरिति रेफान्तमव्ययम् । 'रोरि' इति रेफलोपे ‘ढ्रलोपे पूर्वस्य’ इति दीर्घः ‘स्वाराण्णमुचिसूदनः' इत्यमरः । तयोः मुक्तमहेन्द्रयोः भेदः आस्फूर्तिमान् ईषत्स्फुरणवान् । आङीषदर्थे । अत्यल्प एव भेद इत्यर्थः । यद्वा-आ समन्तात्, आङ्भिविधौ । स्फूर्तिमान् अकर्मवश्यकर्मपरतन्त्रयोर्महान् भेद इति भावः । आङीषदर्थेऽभिव्याप्तौ' इत्यमरः । यद्वा-उक्तरीत्या अनयोस्तौल्येऽपि भेदोपि कश्चित्संभवेद्वा न वेति मीमांसमानस्स्मरन्नाह-आः स्फूर्तिमानिति । तयोः मुक्तमहेन्द्रयोः भेदः एकस्स्वराट् अन्यस्स्वाराडिति वैलक्षण्यं स्फूर्तिमान् इदानीं स्मृत इत्यर्थः । आ इति स्मरणार्थकं प्रगृह्यसंज्ञकमव्ययम् । ‘आ प्रगृह्यस्स्मृतौ’ इत्यमरः । पक्षे–आस्फूर्तिमान् ह्रस्वाकारदीर्घाकाराभ्यां स्फुरणवान् । स्वराट्स्वाराट्छब्दयोस्तावतैव भेददर्शनादिति भावः ॥

 यथावा--

 कमलाननो हरे त्वं कमलासन एव तव सुतो जज्ञे । नसभेदो गणनीयो लोकेशाविति युवां यतो विदितौ ॥ ६३९ ॥

ALANKARA
47