पृष्ठम्:अलङ्कारमणिहारः.pdf/३७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
368
अलंकारमणिहारे

 हे देवि मदम्ब सा प्रसिद्धा तव दशनाळिः रसनाया: रसज्ञायाः अभिख्यया शोभया आढ्या परिपक्वदाडिमबीजराजिवत्पाटलवर्णतया भासमानेत्यर्थः । रशनाळिः मेखलापङ्क्तिश्च । यद्वा रशना आळिस्सेतुरिव रशनाळिः ‘सेतुराळौ स्त्रियां पुमान्' इत्यमरः । स्त्रियां विद्यमानायामाळौ सेतुः पुमानिति कोशार्थः। सारसनमित्यभिख्यया नाम्ना आढ्या ‘सप्तकी रशना तथा । क्लीबे सारसनं च, अभिख्यानामशोभयोः' इति चामरः । अनयोर्मध्ये आद्या दशनाळिः मुख्या श्रेष्ठा मुखे भवा च, अपरा रशनाळिः मध्यस्था मध्यमा अवलग्नस्था च । अनयोः दरमात्री अल्पपरिमाणा भिदा भेदः। दरमात्री च सा भिदा चेति विग्रहः । मुख्यत्वमध्यस्थत्वे एव भेदो नान्य इत्यर्थः । पक्षे दराभ्यां दकाररेफाभ्यामेव भेदः दशनाळिरशनाळिशब्दयोस्तावतैव भेदः तुल्यत्वादन्यवर्णानुपूर्व्या इति भावः ॥

 यथावा--

 तव कृपया मुक्तेन्द्रावाविर्भूतस्वरूपसंपन्नौ । एकस्स्वराट्परस्तु स्वाराडास्फूर्तिमांस्तयोर्भेदः ॥

 हे भगवन्निति प्रकरणाल्लभ्यते । तव कृपया मुक्तः प्रकृतिबन्धविनिर्मुक्तः पुमान् इन्द्रश्शक्रश्च मुक्तेन्द्रौ आविर्भूतस्वरूपसंपन्नौ । मुक्तपक्षे आविर्भूतं यत्स्वरूपं अपहतपाप्मत्वादिब्राह्मगुणविशिष्टं स्वरूपं तेन संपन्नः, पूर्वं कर्मारब्धशरीरसंबन्धवत्तया तिरोहितापहतपाप्मत्वादिः पश्चात् ‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते’ इत्युक्तरीत्याऽऽविर्भूतस्वस्वरूप इत्यर्थः । अत्र संपद्याविर्भावाधिकरणार्थोऽनुसंधेयः । इन्द्रपक्षे आविर्भूतः प्रादुर्भूतः प्रकाशमान’ इति यावत् । यः स्वरुः शतकोटिः 'शतको-