पृष्ठम्:अलङ्कारमणिहारः.pdf/३७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
367
व्यतिरेकसरः (२२)

 यथावा-

 करिभयकारी गिरिशः करिभयवारी फणाधरगिरीशः । वर्णे धवळासितयोरनयोः कावा भिदाऽस्ति हरहर्योः ॥ ६३६ ॥

 गिरिशः धूर्जटिः करिणः गजासुरस्य भयकारी, फणाधरागिरीशस्तु करिभयवारी गजेन्द्रभयनिवारयिता । वर्णे वर्णविषये धवळासितयोः यथासंख्यं सितनीलयोः अनयोः हरहर्योः का वा अभिदा अस्ति न काऽप्यभिदा, किंतु भेद एव स्पष्ट इत्यर्थः । पक्षे –वर्णे अक्षरे विषये कावाभिदा कावाभयमेवभेदः करिभयकारिकरिभयवारिशब्दयोः कावावर्णाभ्यामेव भेदो न वर्णान्तरेष्वित्यर्थः । किंच-हरहर्योः कावा काऽपि अभिदा अकारेणैव भिदा हरशब्दे द्वावकारौ हरिशब्देत्वेक एव स इति भेद इत्यर्थः । अत्र भयकार्यपेक्षया भयवारिण उत्कर्षस्सर्वलोकसाक्षिकः, भयाभयप्रदयोरभयप्रदस्यैव श्रेयस्त्वात् । अत्र हरिशब्दस्य 'द्वंद्वे घि, अभ्यर्हितं पूर्वम्' इति पूर्वप्रयोगावश्यंभावेऽपि ‘लक्षणहेत्वोः’ इति सूत्रनिर्देशात्तस्य प्रकरणस्यानित्यत्वमनुसृतं विवक्षितचमत्कारानुरोधादिति ध्येयम् । इहापि पूर्वोदाहरणवदीश्वरशब्दवाच्यत्वादिप्रयुक्तमौपम्यं गम्यम् ॥

 यथावा--

 सारसनाभिख्याढ्या दशनाळिस्तव मदम्ब रश नाळिश्व । मुख्याऽऽद्या मध्यस्था पराऽनयोर्भवति देवि दरमात्रभिदा ॥ ६३७ ॥