पृष्ठम्:अलङ्कारमणिहारः.pdf/३७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
365
व्यतिरेकसरः (२२)

प्रभासः अग्न्यादयस्तेजस्विनः तेषां विताने समुदये अमितं अपरिच्छिन्नं यथायथा स्फुरन्ती मूर्तिर्यस्य स तथोक्तः । अन्यत्र प्रभायाः अविता रक्षकः प्राप्ता वा। अवतेः रक्षणार्थकादवाप्त्यर्थकाद्वा ताच्छील्ये तृन् । नेमितः नेम्या परितस्थितेन वलयेन स्फुरन्मूर्तिः ‘चक्रंं रथाङ्गं तस्यान्ते नेमिस्स्त्री' इत्यमरः । सः रविः दुर्दर्शः अयं हेतीशः सुदर्शनः शोभनं दर्शनं यस्य स तथोक्तः। सुदर्शनशब्दः पुंस्त्वेऽप्यनुशिष्टः । तथाच मेदिनी ‘सुदर्शनो हरेश्चक्रे मेरुजम्बूद्रुमे पुमान्’ इति ‘सुदर्शनोस्त्रियां चक्रे' इति नामनिधानं च । माघश्च ‘बन्धुरेष जगतां सुदर्शनः’ इति प्रायुङ्क्त ॥

 यथावा--

 निश्वसनविचलदलकं लसदलिकं नलिनमिव भवद्वदनम् । जननि परं त्वत्रान्त्यं कनति तरामब्जकरशुभालोकैः ॥ ६३४ ॥

 निश्वसनेन विचलन्तः अलकाः चूर्णकुन्तलाः यस्य तत्तथोक्तम् । पक्षे—नितरां श्वसनेन मरुता विचलन्तीति विचलानि, पचाद्यच् । दलानि पत्राणि यस्य तत्तथोक्तं ‘शेषाद्विभाषा' इति कप् । लसत् अलिकं ललाटं यस्य तथोक्तं ‘ललाटमलिकं' इत्यमरः । पक्षे -लसन्तः अलयो भ्रमराः यस्मिंस्तत्तथोक्तं, पूर्ववत्कप् । परंतु अन्त्यं भवद्वदनं अब्जस्य चन्द्रमसः कराणां किरणानां शुभैः आलोकैः प्रकाशैः, पक्षे- अब्जः शङ्खः करे यस्य स तथोक्तः भगवानित्यर्थः । तस्य शुभैः कल्याणैः आलोकैः कटाक्षैः कनतितराम् ॥