कर्तरीति विशेषः । अत्रापि राधेवाचरन्ति वेधा इवाचरन्तीत्यर्थे राधायन्ते वेधायन्ते इति क्यङि भामापुरुषयोराचारस्साधारणो धर्मः। कामाधिकरूपेति सम्बुद्धिर्भामानां राधावदाचरणौपयिकी, पुरुषोत्तमेत्येतत्तु पुरुषाणां वेधोवदाचरणौपयिकी । वेधायन्त इत्यत्र ‘कर्तुः क्यङ् सलोपश्च' इति क्यङस्सलोपो विशेषः । इदं तु आचारस्य साधारणधर्मतामभ्युपयतां प्राचां मते उदा हरणद्वयम् । ये तु क्यजाद्यर्थ आचारो न साधारणो धर्मः धर्ममात्ररूपस्याचारस्य उपमाप्रयोजकत्वाभावात् ‘नारीयते समरसीम्नि कृपाणपाणेरालोक्य तस्य ललितानि सपत्नसेना' इत्यादौ वृत्त्यन्तरनिवेदितैः कातरत्वादिभिरभिन्नतयाऽध्यवसितस्याचारस्योपमानिष्पादकत्वात् । यदि च क्यजाद्यर्थं आचारमात्रमुपमानिष्पादकस्स्यात् तदा ‘त्रिविष्टपं तत्खलु भारतायते' इत्यादौ सामान्येनाचारोपस्थितावप्युपमालङ्कृतेरनिष्पत्तिः तस्यैव ‘सुपर्वभिश्शोभितमन्तराश्रितैः' इति चरणान्तरनिर्माणे तस्या निष्पत्तिश्च न स्यात् तस्मात् क्यजाद्यर्थस्साधारणोऽपि नोपमां प्रयोजयति उपमाप्रयोजकतावच्छेदकरूपेण साधारणधर्मवाचकशून्यत्वस्यैव धर्मलोपशब्देनाभिधानात्, अन्यथा ‘मुखरूपमिदं वस्तु प्रफुल्लमिव पङ्कजम्’ इत्यादौ पूर्णोपमापत्तेरित्याचारमात्रस्य साधारणधर्मतां नाभ्युपगच्छन्ति, तेषां मते तु नेदं वाचकमात्रलुप्ताया उदाहरणं भवितुमर्हति धर्मस्यापि लुप्तत्वात् । किन्त्वन्यदेव ॥
यथा--
त्रिभुवनलोभनविभवं विभुमहिशैले भवन्तमाभान्तम् । अनिमेषमीक्षमाणास्सनिमेषा अपि न रास्सुरायन्ते ॥ ५० ॥