पृष्ठम्:अलङ्कारमणिहारः.pdf/३६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
360
अलंकारमणिहारे

 आद्ये उदाहरणे विबोधयन्निति शात्रा द्वितीये दर्शयितुमिति तुमुन्नन्तेन शब्देन बोधनम् । इह तु गम्यमानं तत् । आद्यं शुद्धं अन्ये तु श्लेषसंकीर्णे इति च विशेषः ॥

 असदर्थनिदर्शना यथा--

 सद्गोत्रप्रवरोऽपि प्रभुणा बहुवञ्चको ह्यधःक्रियते । इति दर्शयते हरिणा फणिगिरिरधरीकृतो बहुक्रोष्टा ॥ ६२६ ॥

 गोत्रं प्रवरश्च गोत्रप्रवरौ, सन्तौ गोत्रप्रवरौ यस्य स तथोक्तोपि सत्कुलप्रसूतोपीत्यर्थः । पक्षे उत्तमशैलश्रेष्ठोऽपि । बहूनां वञ्चकः अतिसंघाता । पक्षे बहवो वञ्चकाः सृगालाः यस्मिंस्तथोक्तः अधःक्रियते न्यक्क्रियते अधरीक्रियते च । अत्र फणिगिरिर्भगवत्कर्तृकस्वकर्मकाधःकरणक्रियया स्वकीयया दृष्टान्तभूतया अन्योऽप्येवं सद्गोत्रप्रवरोऽपि बहुवञ्चकश्चेत्प्रभुणाऽधःक्रियत इत्यसदर्थं बोधयन्निबद्ध इति भवतीयमसदर्थनिदर्शना ॥

 यथावा--

 भगवन्मुखप्रसादासहनानां गतिरियं भवित्रीति । संदर्शयन् जनानमिन्दुरुपैद्रौरवानुबन्धमलम् ॥

 इन्दोर्भगवन्मुखप्रसादासहनत्वं च तदौपम्ये पर्यवस्यतीति रहस्यम् । रौरवस्य तन्नाम्नो नरकस्य अनुबन्धं संबन्धं अलं उपैत् । वस्तुस्थितिस्तु रुरोः मृगस्यायं रौरवः । अण् । स चासावनुबन्धश्च तेन मलं कलङ्कमिति । अत्र रौरवानुबन्धं भजन्निन्दुरात्मवद्भगवन्मुखप्रसादासहिष्णूनां रौरवप्राप्तिर्भविष्यतीत्यसदर्थं बोधयन्निबद्धः ॥