पृष्ठम्:अलङ्कारमणिहारः.pdf/३६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
359
निदर्शनासरः (२१)

संगच्छते । यदि तु यत्नार्थकात्कृञस्तृचि सविषयार्थकधातूत्तरकर्तृप्रत्ययस्याश्रयत्वे निरूढलक्षणया यत्नाश्रयः कर्तृपदार्थः । स एव च कर्तृप्रत्ययानां मुख्यार्थः अचेतनस्तु भाक्त इति न्यायेन पर्यालोच्यते तदा बोधयन्नित्यत्र गम्योत्प्रेक्षा संभवत्येवेत्यप्याहुः । तद्वदत्राप्युत्प्रेक्षा संभवतीति ध्येयम् ॥

 यथावा--

 संसिद्ध्यैव श्रीमान्भवति महीभृच्छिरोभिपूज्य पदः । इति दर्शयितुं फणभृत्पतिगिरिशिखरे पदं न्यधाच्छौरिः ॥ ६२४ ॥

 संसिद्ध्या प्रकृत्यैव 'संसिद्धिप्रकृती इमे' इत्यमरः । पदं चरणं स्थानं वा । अत्र भगवान् स्वकीयया फणिगिरिशिखराधिकरणकचरणाधानक्रियया परान्प्रति निसर्गत एव श्रीमान्महीभृच्छिरोऽभिपूज्यपदो भवतीति सदर्थं बोधयन्निबद्ध इति भवतीयं सदर्थनिदर्शना । एवमुत्तरत्रापि ॥

 यथावा--

 वनमालामाश्रितमपि लक्ष्मीर्न जहाति पुरुषमतिपुण्यम् । इति वृषशिखरिणि लक्ष्मीर्वनमालिन उरसि सततमपि वसति ॥ ६२५ ॥

 अतिशयितं पुण्यं यस्य तं अतिमात्रसुकृतशालिनमित्यर्थः। भगवत्पक्षे अतिक्रान्तः पुण्यं अतिपुण्यः तं तथोक्तं ‘न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते, तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः' इत्यादिश्रुतिभ्यः । पाप्मशब्दोऽत्र पुण्यपापरूपोभयविधकर्मपर इति स्थापितमाकरेषु । शिष्टं स्पष्टम् ॥