पृष्ठम्:अलङ्कारमणिहारः.pdf/३६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
357
निदर्शनासरः (२१)

 इति पद्यं वाक्यार्थनिदर्शनायामुदाजहार । आह च-यत्र तु प्रकृतवाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र सम्बन्धानुपपात्तमूला निदर्शनैव युक्तेति । तन्न, वाक्यार्थरूपकस्य दत्तजलाञ्जलित्वापत्तेः । न चेष्टापत्तिः, वाक्यार्थनिदर्शनैव निर्वास्यतां स्वीक्रियतां च वाक्यार्थरूपकमिति पर्यनुयोगस्यापि तुल्यत्वात् । युक्तं चैतत्, पदार्थरूपके मुखं चन्द्र इत्यादौ । क्लृप्तस्य श्रौतस्याभेदारोपस्य 'रूपकजीवातुत्वकल्पनाया औचित्यात् 'इन्दुशोभां वहत्यास्यम्’ इत्यादिपदार्थनिदर्शनायामभेदारोपस्याभावात्तज्जीवातुत्वायोगाच्च । रूपके बिम्बनं नास्तीति तु शपथमात्रं युक्त्यभावात्, अस्मदुक्तोदाहरणे वाक्यार्थनिदर्शनायास्सावकाशत्वाच्च । यत्तु तेनैव लक्षणं निर्मितं ‘सम्भवताऽसम्भवता वा वस्तुसम्बन्धेन गम्यमानमौपम्यं निदर्शना, इति तदपि न, रूपकातिशयोक्त्यादिष्वतिव्यापनात् । यदि तु-

त्वत्पादनखरत्नानि यो रञ्जयति यावकैः ।
इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥

इति निर्मीयते पद्यं तदा निदर्शना युक्ता । न चास्मदुक्ता वाच्या निदर्शना, इय तु प्रतीयमानेति वाच्यम् । मुखं चन्द्र इवेति वाच्योपमा । मुखं चन्द्र इति प्रतीयमाना, न त्वलङ्कारान्तरमित्यस्यापि सुवचत्वात् । एवंचारोपाध्यवसानमार्गबहिर्भूत आर्थ एवाभेदो निदर्शनाजीवितम् । स च कर्त्राद्यभेदप्रतिपादनद्वारा प्रतिपाद्यते वाक्यार्थनिदर्शनायाम्। परे तु ‘त्वत्पादनखरत्नानाम्’ इत्यत्र दृष्टान्तालङ्कारमाहुः । तदप्यसत्, बिम्बप्रतिबिम्बभावापन्नपदार्थघटितस्य निरपेक्षवाक्यार्थद्वयस्यैव दृष्टान्तत्वात् । तस्मात् ‘त्वत्पादनख' इत्यत्र वाक्यार्थरूपकमेव न